________________
सरः] प्रभायाऐक्यबाधकपरिहारः, तस्याःविशीर्णदीपावयवत्वनिरासः, तेजस्त्वंच 565
तत्वमुक्ताकलापः च स्यात् तेजस्तत्सप्रभाकं तिमिरहरतया साऽपि तेजोविशेषः ॥ ५६ ॥
सर्वार्थसिद्धिः प्रत्यभिज्ञाविषयप्रधानोदाहरणतया प्रासद्धेषु स्थिरतरेषु रत्नादिषु प्रतिक्षणविनाशोऽवयवविशरणं च न कल्पयितुं शक्यम् । अतस्तेषु त्वदुक्तप्रकारेण प्रभोत्पत्तिकल्पनायोगानिष्प्रभत्वप्रसङ्ग इत्यर्थः । परिशेषतः स्वाभिमतमाह--तेज इति । उक्तानुपपत्त्या दीपादितेजः प्रभाविशिष्टमेवोत्पद्यत इत्यर्थः । ननु प्रभाद्रव्यं न तत्वपतौ गण्यते; तहहिर्भावश्चापसिद्धान्तः; अन्तर्भावश्च न वायुपर्यन्तेषु रूपवत्त्वात् । न तोयपृथिव्योः; रसगन्धादिरहितत्वात् । न तेजसि; तद्धर्मतयाऽभ्युपगमात् । अतो विशीर्णतेजोऽतिरिक्ता प्रभा नास्तीत्यत्राह-तिमिरहरतयेति । तिमिरहरत्वं तेजस्त्वमात्रे हेतुः । विशेषशब्दस्तु प्रतीतिसिद्धावा
आनन्ददायिनी इति शास्त्रम् । नन्विति—अतिरिक्तत्वानुपपत्तौ उ(त्वमनभ्युपेत्यो)क्तान्तर्भावस्य वक्तव्यत्वे प्रकारान्तरेणान्तर्भावस्य वक्तुमशक्यत्वा(र्भावस्यानुमतत्वा)दिति भावः । अवान्तरवैषम्यं--प्रभात्वम् । ननु प्रभा तेजो भवितुमर्हति तिमिरहरत्वात् दपिवदित्यत्र साध्याविशेष इत्यत्राह --तिमिरहरत्वमिति । भास्वररूपविशिष्टतयेति-प्रकृत्यादित्वात् स्वार्थे तृतीया । तथाच भास्वररूपविशिष्टत्वात्तेजस्त्वमित्यर्थः । यद्वा तिमिरहरत्वात्तैजसमित्यत्र तैजसत्वाज्ञाने तिमिरहरत्वज्ञानं न संभवति सेजस्त्वेनैव