SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ 558 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य तत्वमुक्ताकलापः प्राणोऽक्षं प्राणशब्दादुपकरणतया क्षेत्रिणश्चेत्ययुक्तम् शब्दैक्यं ह्येकजात्यं सर्वार्थसिद्धिः व्यभिचरति अत्र कश्चिदाह- 'प्राणसंवादादिष्विन्द्रियैस्सह प्राणः पठितः । प्राणशब्दश्च साधारणः प्रयुक्तः । चेतनो (क्षेत्रज्ञो) पकरणत्वं च समानम् । अतः प्राण इन्द्रियमिति । एतदनूद्य परिहरतिप्राण इति । सहपाठमात्रं न तज्जातीयत्वसाधकमित्यभिप्रायः । प्राणशब्दवाच्यत्वं नेन्द्रियत्वसाधकमित्याह — शब्दैक्यमिति । अन्यथा अनेकार्थशब्दलोपप्रसङ्ग इति भावः । अत्र च प्राणशब्दः आनन्ददायिनी प्रसङ्गसंगत्याऽऽह— अत्र कश्चिदिति । प्राणसंवादो नाम छान्दोग्ये प्रकरणविशेषः; तत्प्रायपाठात्तज्जातीयत्वमित्यर्थः । प्राणशब्दश्च साधारण इति – इन्द्रियाणां प्राणस्य च प्राणशब्दवाच्यत्वे इन्द्रियत्व - मेव प्रवृत्तिनिमित्तं लाघवात् । तथाच समानवृत्तिनिमित्तकैकशब्दवाच्यत्वात्तज्जातीयत्वमित्यर्थः । किंच - प्राणादय इन्द्रियाणि चेतनोपकरण`त्वात् चक्षुरादिवत् इत्यभिप्रायेणाह — चेतनोपकरणत्वं चेति । सहपाठमात्रमिति-सहपाठमात्रस्य प्रत्युत भेदकत्वमेव; अन्यथा वैयर्थ्यादिति भावः । अग्रयप्रायनयश्च सहपाठप्रयोजकधर्मातिरिक्तधर्मेण साजात्यप्रयोजको न तद्धर्मेणापीति भावः । एकशब्दप्रयोगविषयत्वमपि मुख्यवृत्त्या प्रयोगविषयत्वं विवक्षितम् ? उतैकशक्तया ? उत प्रयोगविषयत्वमात्रम् ? इति विकल्प्य आद्ये दूषणमाह - अन्यथेति । अक्षादिपदप्रयोगविषयेषु
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy