________________
532
सव्याख्यसर्वार्थासद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः अन्यस्मिन्नन्यधर्मान् घटयतु वियदाद्यत्र नातिप्रसक्तिः सिध्यत्कार्योपयुक्तोपनयननियमोपेततच्छक्तिक्लप्तेः । एवं ह्येवाधिकायामपि दिशि भवतोऽतिप्रसङ्गो निषेध्यो धर्मो धर्मी च कल्प्यौ
सर्वार्थसिद्धिः हरति-अन्यस्मिन्निति । हेतुमाह-सिद्धयदिति । यथा कलमबीजस्याङ्कुरजननशक्तिकल्पनेऽपि न कोद्रवाकुरजनकत्वं ; दृश्यमानकार्यानुगुणकारणशक्तिकल्पनात् । तथा वियदादिष्वपि परत्वादिसिद्धयुपयुक्तोपनायकतयैव तच्छक्तिक्लप्तेरित्यर्थः । अत्र प्रतिबन्दिमभिप्रेत्याह-एवं हीति । नन्वधिकाया दिशस्तावदर्थत(या यैव धर्मिग्राहकेण सिद्धिः; न तथा वियदादेः; तत्स्वरूपस्यान्यतस्सिद्धत्वादिति चोद्यं विपरीतफलमित्यभिप्रायेणाहधर्मीति । नावश्यं धर्मिग्राहकेणैव सर्वत्र शक्तिसिद्धिः; गृहीतेष्वपि धर्मिषु तत्तत्कार्यदर्शनेन तनियतशक्तिक्लप्सः । अत एव
__ आनन्ददायिनी तत इति—अविशेषादिति भावः । यथा कलमेति-अन्यथा अङ्कुरजननशक्तिकल्पनाऽविशेषात् सर्वत्राङ्कुरजनकतापि स्यादिति भावः । अत्र प्रतिबन्दिमभिप्रेत्येति-अतिरिक्तदिक्परिकल्पनापक्षेऽपि तस्यान्यधर्मोपनायकत्वेऽतिप्रसङ्गस्समान इति प्रतिबन्दि (न्दी) मित्यर्थः । प्रतिबन्द्याः परिहारमाशङ्कते.---नन्विति । विपरीतफलम्-अफलमित्यर्थः । तदेवोपपादयति–नावश्यमिति । धर्मिग्राहकमानेन सधर्मकसिद्धिर्भ