SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ 526 सव्यारूयसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जिडद्रव्य सर्वार्थसिद्धिः न्तरावृतत्वादिवाक्यैश्च सिद्धम् । तेषु तद्विरुद्धसाधनमागमबाधितमित्यर्थः । उक्तेषु च हेतुषु निरवयवत्वं(त्वादिक) पञ्चीकरणवा(णत्वा) दिशास्त्रविरुद्धम् । सर्वदा स्पर्शरहितद्रव्यत्वादिति विभुत्वसाधने अणुत्वेन श्रुति(त्वेनप्र)सिद्ध वैरनैकान्त्यम् । ज्ञानासमवायिसंयोगाधारत्वमात्ममनसोरसिद्धं च; ज्ञानद्रव्य(ज्ञाननित्य)त्वादोर्वक्ष्यमाणत्वात् ज्ञानावस्थानां त्वा(चा)त्ममनस्संयोगासमवायिकारणकत्वाभावात् । किंचात्र नित्यत्वसाधनमाकाशादिद्रव्य आनन्ददायिनी स्यैव विपक्षबाधकता याच्येत तबनित्यत्वाभावे साध्ये इन्द्रियग्राह्यगुणत्वं न स्यादित्यापादनेन विपरिवृत्तिप्रसङ्गादिति विपरिवृत्तापादनस्यापि सुवचत्वादित्यर्थः । सृष्टयादीत्यादिशब्देन प्रलयग्रहः । आवृतत्वादीत्यादिशब्देन प्रकृतेरप्युत्तरावधिपरिच्छिन्नत्वप्रतिपादकवाक्यसंग्रहः । स्वरूपासिद्धिदूषणमप्याह-उक्तेष्विति । निरवयवत्वे पञ्चीकरणायोगादिति भावः । व्यभिचारमप्याह-सर्वदेति । व्याप्यत्वासिद्धि स्वरूपासिद्धिं चाह -- ज्ञानेति । ननु ज्ञानद्रव्यस्य नित्यत्वेऽपि तदवस्थानां च जन्यत्वात्तदसमवायिकारणसंयोगाधारत्वं विवक्षितमिति नासिद्धिरित्याहज्ञानावस्थानां त्विति । नन्वात्ममनस्संयोगस्य तदसमवायिकारणत्वाभावेऽपि ज्ञानद्रव्यमनस्संयोगोऽसमवायिकारणमस्तु ; तथा स एव हेतुः, ज्ञानद्रव्यमेव दृष्टान्तोऽस्त्विति चेत् ; आत्मज्ञानद्रव्यसंयोगो वा आवश्यकप्राणमनस्संयोगो वा असमवायिकारणमस्तु ; मनस्संयोगः कारणमित्यत्र मानाभावात् । न च विनिगमकाभावात्सर्वेषां संयोगानामसमवायिकारणत्वं; तथाच नासिद्धिरिति वाच्यम् ; तर्हि व्यभिचारापातात् । इदं ज्ञानस्य अनित्यत्वाङ्गीकारेऽपि समानम् । वस्तुतस्तु समवायिकारणाभावादसम
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy