________________
सरः] खादिपदविषयः आकाशाध्यासिकत्वनिरासः क्षणिकादिपदशक्तयाद्युपपत्तिः 517
सर्वार्थसिद्धिः नीलं नभ इति भातीति निरस्तम् । आलोकदेशे(च) नभः प्रतीत्यनुवृत्तेः। ननु अस्मदिष्ट(ष्ट)क्षणिकत्वादिकं क्वचित्ते सिद्धमसिद्धं वा? उभयथाऽपि कथं तत्प्रतिक्षेपः? कथं वा तस्मिन् केषाश्चित् सत्यताभ्रमं निर्वक्ष्यसि ? इत्थम् । एतदुत्तरक्षणवृत्तित्वाभावो हि यत्र क्वचिदन्यत्र सिद्धः! स सर्वस्मिन् कुतश्चिदारोप्यते प्रतिक्षिप्यते चेति सुस्थमेतत् । एवमन्यदपि सर्व(अन्यत्सर्वमपि) चिन्त्यम् । शशशृङ्गं तीक्ष्णमित्यादिषु च प्रमिते शशादौ शृङ्गवत्वारोपः शृङ्गादौ च प्रमिते सत्याऽसत्या(सत्यसति)वा तीक्ष्णधीः इत्येताव(इत्यत)त् सहृदयहृदयारूढम् । नात्रासति किञ्चिदा
आनन्ददायिनी
लोके नीलं नभ इति प्रतीते (सावा)लोकाभावो विषयः इत्याहआलोकेति । ननु प्रमाणसिद्ध एव सत्ये(पदार्थ)पदानां व्युत्पत्तिः । तर्हि क्षणिकादिशब्दानां व्युत्पत्तिग्रहो न स्यादिति शङ्कते-नन्विति उभयथापीति-सिद्धयसिद्धिव्याघातादिति भावः । तथाच सत्येव सत्यतारोपोऽस्मिंश्चासत्ये व्युत्पत्तिश्च वक्तव्येति भावः । नात्रासति सत्यतारापो नापि तत्र व्युत्पत्तिरित्यभिप्रायेण परिहरति --इत्थमिति । उत्पत्तिकालिकघटानन्तरकालसत्त्वं मृत्पिण्डावस्थायां सदेव घटे आरोप्यते ; स्वोत्पत्तिक्षणानन्तरक्षणासत्त्वमेव स्वस्मिन् निषिध्यते ; तदन्यत्र सदेवेति नानुपपत्तिरिति भावः । अन्यदपि----अनिर्वचनीयत्वादिकमपीत्यर्थः । सत्याऽसत्या वेति--प्रमितस्य शृङ्गस्य तैक्ष्ण्यवत्त्वे धियस्सत्यता; तदभावे भान्तिरित्यर्थः । नात्रासतीति--तथाच व्योम्नोऽसत्त्वे तस्मिन्