SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ सरः] चार्वाकाद्यभिहिताया अभावनिस्स्वभावताया निराकरणम् 511 तत्वमुक्ताकलापः सपेणैव भानान (बोधान्न) भवति वरणाभावमात्रं विहायः सर्वार्थसिद्धिः वस्तुशून्यो विकल्पः' इति, 'एष वन्ध्यासुतो याति' इत्यादि च(षु)। अतो नास्त्येव नभ इति तत्राह–सद्रूपेणेति । अयं भावः-सर्व हि वस्तुजातं संविद्यवस्थाप्यम् ! संविद्यते च भावरूपतयैव नभः । भावान्तरमेवाभाव इति स्थापयिष्यते । अन्यथाऽपि ब्रूमः-नाभावस्य निस्स्वभावता ; अभावस्वभावतयैव तत्सिद्धेः। स्वान्यस्वभावतया सिद्धिस्तु न कस्यापि । न च स्वेन स्वभावेन सिद्धस्य परस्वभावविरहादसत्त्वम् ! अति __ आनन्ददायिनी इति न्यायादिति भावः । तदुदाहरति-एष इति । आदिशब्देन 'शशशृङ्गधनुर्धरः' इत्यादिवाक्यशेषसंग्रहः । ननु नअपश्लेषाभावमात्रेण सद्रूपेण प्रतीतावपि तलत्वादिवत् शशशृङ्गादिवच्च तुच्छता स्यादित्युक्तस्य नोत्तरमित्यत्राह -- अयं भाव इति । ननु भावरूपत्वाभवातद्रूपतया भानं भ्रम इति चेत् ; तत्राह-भावान्तरमिति । तथाच अभावत्वे (बुद्ध)ऽपि भावत्वबुद्धेर्न भ्रमत्वमिति भावः । अन्यथाऽपीति-भावादभावस्यान्यत्वेऽपीत्यर्थः । यदुक्तमाकाशस्यावरणाभावत्वानिस्स्वभावत्वमिति ; तदयुक्तमित्यत्राह-नाभावस्येति । नन्वभाव (स्वभाव)त्वेपि भावस्वभावत्वाभावान्निस्स्वभावतेति चेत् ; तत्राहस्वान्येति । घटादीनामपि स्वान्यपटादिस्वभावत्वाभावान्निस्स्वभावतापात
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy