________________
सरः] नभसोऽत्यक्षत्वसाधनखण्डनम्, प्रतिप्रयोगेण बहिरिन्द्रियग्राह्यत्वसाधनं च 501
सर्वार्थसिद्धिः
बाह्येन्द्रियग्राह्यं बाह्यत्वे सति अस्मदाद्यपरोक्षधीविषयत्वात् अविगीतवत् । नात्र हेतुरसिद्धः परिशेषप्राप्तेः । न तावदत्रागमिकी नभःप्रतीतिः ; तदनभिज्ञानामपि सम्भवात् । नाप्यानुमानिकी; सिद्धेऽपि तदनुमाने अनधिगततादृशानुमानानां नभःप्रतीतेः । तदेवमाकाशस्या (त्रा) नुमानादिविषयत्वायोगात् आबालपण्डितमनुभूयमानत्वाच्च तद्बुद्धिरपरोक्षेति सिद्धम् । ननु असिद्धस्य सिद्धस्य वा नभसः प्रत्यक्षत्वसाधनम् ? नाद्यः ; अनुमानकथाबाह्यत्वात् । न द्वितीयः अनुमानतस्तत्सिद्धेस्त्वदनभ्युपगमात् । प्रत्यक्षतस्तत्सिद्धेरस्मदनभ्युपगमादिति । मैवम् उभयसंमतादागमतोऽपि तत्सि (येत ) द्धेः । आस्तामागमः ; पृथिव्याद्यतिरिक्तस्य नभःप्रतीतिविषयस्य कस्यचिदुभयसंमत्या पक्षीकारोपआनन्ददायिनी
वारणाय बाह्येति । हेतावप्यात्मादौ व्यभिचारवारणाय बाह्यत्वेति । परमाणौ व्यभिचारवारणाय अस्मदादीति । पारिशेष्यमेवोपपादयति-न तावदित्यादिना । नमः प्रतीतिरपरोक्षा स्मृत्यनुमितिशाब्दान्यत्वे सति प्रतीतित्वात् संप्रतिपन्नवत् इति परिशेषानुमानं द्रष्टव्यम् । ननु नभःप्रतीतिसिद्धौ तस्याः पारिशेष्यादापरोक्ष्यं सिध्येत् त ( देव नास्ति ) स्या एवासिद्धिः, इत्यत्राह - आबालेति । ननु नभसो बहिरिन्द्रिय (बहिः) प्रत्यक्षत्वसाधनं न संभभवती (वति आश्रयासिद्धेरि) त्याशङ्कते - नन्विति । आबालपण्डितमनुभूयमानत्वाच्चेति नभस्सि (संभवात्सि) द्धेरुक्तत्वादियं शङ्का न युक्ता, तथाऽपि तत्सिद्धि ( प्रमाण ) निरूपणे उभयसिद्ध(संमत) प्रमाणसिद्धत्वाभावादाश्रयासिद्धिरि (द्धिमाशङ्कत इ) ति द्रष्टव्यम् । आस्तामिति । उभयसंमतासिद्धिमत्त्वं पक्षताप्रयोजकम् ; न तु उभयसंमतप्रमाणसिद्धत्व