________________
सरः] आतपतदंशादीनां नभस्त्वनिरासः, पराभिमताकाशाप्रत्यक्षत्वसाधनप्रकारश्च 499
तत्वमुक्ताकलापः न च व्योमवागातपादौ ॥ ४२ ॥
रूपस्पशोज्झितत्वान्न भवति गगनं दर्शनस्पर्शनार्ह घ्राणश्रोत्रे रसज्ञाऽप्यवगमयति न द्रव्यं ;
सर्वार्थसिद्धिः गतौ लोकव्यवहारं प्रतिपक्षयति-न चेति । इह नभसि व्यणुकं इह व्योम्नयातपः इत्यादिव्यवहारे व्यणुकतत्समुदायादिव्यतिरिक्ते कुत्रचिन्नभःपर्यायाणां प्रयोगः प्रसिद्धः सर्वलोकप्रतीतिव्यवहारोल्लङ्घनं तु सर्वसंक्षोभकं साहसमिति भावः । चश्शङ्काबोतकः अवधारणार्थो वा ॥४२॥
आकाशस्य प्रत्यक्षत्वे (परोक्तं) बाधं (धक) शङ्कतेरूपेति । नभो न चाक्षुषं रूपशून्यद्रव्यत्वात् ; नापि स्पार्शनं स्पर्शशून्यद्रव्यत्वात् ; इति हेतुद्वयविभागः। अन्येषां तु बाह्येन्द्रियाणामत्रासम्भवमाह-घ्राणेति । घ्राणादीनि हि स्ववेद्य
आनन्ददायिनी दृष्टविलक्षणातपादिकल्पने तस्यैवाकाशत्वमित्याह-इह नभसीति । अन्यथा घटादिकमपि पटादिधीगोचर इति साहसेन सर्व (लोक) व्यवस्थोच्छेदप्रसङ्ग इति प्रतिव्यवहारौ नातिलयावित्याह—सर्वलोकप्रतीतीति ॥ ४२ ॥ ____ आक्षेपसंगतिमाह-आकाशस्येति । नभो न चाक्षुषमिति । लौकिकचाक्षुषधीविषयो नेत्यर्थः । रूपेति-घटरूपादौ व्यभिचार
32*