SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ रसेश्वरसिद्धान्तदूषणं स्वोक्तनिगमनं च 487 सर्वार्थसिद्धिः यनमहस्संभवबाह्यालोकानुवृत्त्या दृश्यदर्शनानुवृत्तिस्स्यात् । अतः प्रागुक्तप्रकारैव प्राप्तिरिति ॥४०॥ चक्षुरादेः प्राप्यकारित्वम् भवतु चक्षुषस्तेजसाप्यायितत्वात् मणिप्रभान्यायेन काचिदृत्तिः; श्रोत्रस्य तु आकाशाप्यायितस्य सा कथमित्यत्राह __ आनन्ददायिनी खव्यापित्वाभावादभ्युपेततेजसा मुखग्रहणं न स्यादिति मावः । नन्वाभिमुख्येनोत्पन्नस्यापि दर्पणादिसन्निधौ परावृत्तिरस्त्विति चेत् न ; तथात्वे नयनवृत्त्यैवोपपत्तौ अतिरिक्तकल्पने गौरवप्रसङ्गात् । नच दूरासन्नार्थयुगपद्हणा(य)थं तदभ्युपगमः ! तथाऽप्यवयव्यन्तरं विना स्वनयनतेजस्संवलितबाह्यतेजस एव ग्राहकत्वकल्पनोपपत्तेः । किं चान्धकारस्थपुरुषेण योजनदूरस्थालोकमध्यवार्तिपर्वतादिकं मध्ये च समीपस्थितालोकमध्यस्थमपि वस्तु युगपदेव गृह्यते । नच दूरासन्नपदार्थव्यापि किंचित्तेजोऽन्तरं जन्यते ! मध्येऽन्धकारस्थले बाह्यालोकाभावात् । क्रमेण दूरासन्नयोस्तेजसोईयोरुत्पत्तौ ऋमिकत्वेन यौगपद्यग्रहो न स्यात् । तत्र चेत् झाडित्यादिना समर्थनं तदा नयनवृत्तेरेवोपपत्तिरिति भावः ॥ ४० ॥ ॥ चक्षुरादेः प्राप्यकारित्वम् ॥ अत्राप्याक्षेपसंगतिमाह--भवत्विति। आकाशाप्यायितस्येति
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy