________________
सरः]
प्राप्तिप्रकारान्तरनिरासः रसेश्वरपक्षानुवादश्च
485
~~~~
सर्वार्थसिद्धिः ह्यहङ्कारविकारयोश्चक्षुश्श्रोत्रयोर्यावद्देशस्थविषयग्राहित्वं दृष्टं तावत्पृथुत्वं तत्तच्छरीरोत्पत्तिसमयसिद्धं ; तत्राधिष्ठानाद्वहिरवस्थितांशो वृत्तिरित्युच्यत इति तदा निमीलनाद्यवस्थायामपि ग्राहकत्वंप्रसङ्गः; प्राप्तेरनपायात् , अथ पृथ्वग्रा संतताऽपि बहिर्वृत्तिः दीपप्रभान्यायेन विनश्यति; अत एव छन्नग्रहणाभाव इति; तथात्वेऽप्येकस्यादृश्यमानपृथुत्वाणुत्वाद्यनन्तावस्था स्वतो भिन्नाभिन्नवृत्त्यंशनाशः तन्नाशेऽपि स्वरूपावस्थानमित्यादिबहुविधकल्पनापात इति । यत्तु कैश्चिदुच्यते-निष्क्रान्तमात्रमेव चाक्षुषं तेजः बाह्येन बहुदेशव्यापिना चन्द्रसूर्यादिज्योतिषा संव
आनन्ददायिनी अतिप्रसङ्गमेव दर्शयति-तदा निमीलना (लिता) द्यवस्थायामिति । तथात्वेऽपीति - एकस्येन्द्रियस्य विषयग्रहणकाले विषयदेशव्यापिपृथुत्वावस्था निमीलनकाले नाशात्मकसंकोचरूपाणुत्वावस्था च अदृश्यमाने कल्प्ये इत्येको गौरवदोषः । बहिर्गतांशस्यावयविना समं भिन्नाभिन्नत्वाद्वा भिन्नांश (भिन्नाभिन्नत्वात्स्वांश) (भिन्नाभिन्नत्वात्स्वाभिन्नांश) नाशेऽपि तदभिन्नेन्द्रियस्वरूपस्यावस्थानं चात्यन्तादृश्यमानं कल्प्यमित्यपरो दोषः । तथा (तदा)पि (वि) नष्टावस्थस्य च चक्षुरुन्मीलनानन्तरं तावद्व्यापिनश्चक्षुष उत्पत्तिरित्यादिबहुदोष इत्यर्थः । यत्तु कैश्चिदिति-रसेश्वरादिसि (श्वरसि) द्धान्तिभिरित्यर्थः ॥
निष्क्रान्तं चाक्षुषं तेजो बाह्यालोकेन वर्धितम् ।
दूरासन्नार्थयोर्नित्यं गृह्णाति युगपत्कचित् ।। इत्युक्तेः । नैयायिकैकदेशिन इत्यप्याहुः । चाक्षुषं तेज इति–चक्षू