________________
सरः] उन्मीलितनिमीलितचक्षुषो ग्राह्याग्रहणे क्षणभङ्गस्य साधनतानिरासः 483
तत्वमुक्ताकलापः न हि गलति समा सन्ततिस्त्वन्मतेऽपि ॥४०॥
सर्वार्थसिद्धिः अयं भावः-छादनदशायां पूर्वगृहीतस्य स्वरूपयोग्यत्वं स्थितं नष्टं वा? आधे कथं न गृह्येत ? प्राप्तेर (नपेक्षणात्) प्रयोजकत्वात् । द्वितीये नाशकं न दृष्टम् । छादकमेव स्वरूपयोग्यतानाशकमिति चेन्न; अव्यवहितदेशस्थैरप्यग्रह (ण) प्रसङ्गात् । यं प्रति न व्यवधिस्तं प्रति योग्यता नष्टेति चेत् ; छादकापगमेऽप्यग्रहप्रसङ्गात् । तदपगमात्पुनरुत्पद्यत इति चेत् ; हन्त; अदृश्यमानानन्तोत्पत्तिनाशकल्पनात् प्रतिपुरुषनियतानन्तयोग्यताभेदकल्पनाच बरं प्रदीपप्रभान्यायेन प्राप्तिविघातकतया छादकसाफल्यस्वीकारः । परपक्षणापि प्रसङ्गस्थैर्यमाह-समेति । अपिरन्वारोहयोतकः । क्षणभङ्गपक्षेऽपि
आनन्ददायिनी (स्य)भावः-सत्त्वं व्यवहितस्थलेऽपीत्यर्थः । प्रतिज्ञामात्रेण नार्थसिद्धिरित्यत आह-अयं भाव इति । अव्यवहितदेशस्थैरिति-छादकेन योग्यताया नाशादिति भावः । हन्तेति- छादकस्य किञ्चिद्विघातकतया प्रतिबन्धकत्वस्य कल्पने गौरवपरिहारेण लघुपक्ष एवाश्रयितुं युक्त इति भावः । क्षणभङ्गपक्षेऽपीदं समानम् ; छादकान्तहितस्य क्षणस्य पूर्वगृहीतक्षणापेक्षया भिन्नत्वेऽपि तस्यायोग्यत्वे समीपस्थैरन्तरितैरपि न गृह्येत ; गृह्येत चेत् योग्यत्वादन्तरितैरपि गृह्येत । यदि प्रतिपुरुषं योग्यताभेदः कल्प्यते तदा प्राप्तिर्वा लाघवात्कल्प्यता. मिति ध्येयम् । परपक्षेणेति-क्षणिकपक्षणापीत्यर्थः- अन्वारोहोऽ
31*