________________
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
चरितार्थत्वात् । अन्यथाऽतिप्रसङ्गात् । प्रतिबन्धकाभावे - ष्टोपनीत दृष्टसामग्रथैव कार्यसिद्धिर्नियता ! तदिह कारणान्तरं यदि विभु स्यात् युगपदनेकेन्द्रियसंबन्धितया युगपत् पञ्चविषयज्ञानोत्पत्तिप्रसङ्गः । एवं देहपरिमाणत्वेऽपि । न च मनसस्ततोऽपि सूक्ष्ममध्यमपरिमाणत्वे प्रमाणमस्ति ! विभुनोऽपि मनसः केनचित् शरीरावयवेन अवच्छिन्नतयैव कार्यकरत्वमिति चेन्न तस्य निष्कम्पत्वे अन्यत्र कार्याभावप्रसङ्गात् । संचारित्वे तु तादृशवेगवतस्तस्य देहातिरिक्तत्वमणुत्वं च साधीयः ; किमन्तर्गडुना व्यापकेन मनसा ? यस्तु सर्वेषां देहावयवानां यथासंभवमवच्छेदकत्वं ब्रूयात् तस्य प्रागुक्तप्रस
470
[ जडद्रव्य
आनन्ददायिनी
भावः । नन्वस्तु; मनसस्तावताऽणुत्वं कथम् ? इत्यत्राह -- तदिति । नन्वस्तु मनसो मध्यमपरिमाणत्वम् ? इत्याशङ्कय किं देहपरिमाणत्वेन मध्यमपरिमाणत्वं उत ततोऽपि न्यूनपरिमाणत्वेन ? इति विकल्पमभिप्रेत्य क्रमेण दूषयति — एवं देहपरिमाणत्वेऽपीत्यादिना । विभुत्वेऽपि धीक्रमं शङ्कते - विभुनोऽपि मनस इति । तस्य -- शरीरावयवस्य । साधीय इति-यदि इन्द्रियैस्संबन्धार्थं मनोऽवच्छेदको ऽवयवोऽवयवान्तरदेशं गच्छति तदा पूर्वावयवसंयोगनाशाच्छरीरनाशस्स्यात् । इन्द्रियाणामेव यदि तद्देशप्राप्तिः, विषयसंबन्धो न स्यात् । यदि तावदिन्द्रियदेशव्याप्यवयवः ; तदा शरीरमेव स्यात् । यदि समवायिकारणभिन्नमवयवान्तरं तर्हि तस्यैव मनस्त्वोपपत्तौ ततोऽतिरिक्तविभुकल्पनं व्यर्थमित्यर्थः प्रागुक्तेति — युगपत्ज्ञानोत्पत्तिप्रसङ्गः । ' युगपत्ज्ञानानुत्पत्तिर्लिङ्गम् '
;