________________
सरः
मनोनित्यत्वनिरासः तद्विभुत्वानुमानदूषणं च
465
सर्वार्थसिद्धिः श्रुत्यैव निरस्तम् । प्रकृत्येकदेशपरिणतिर्मन इति सिद्धे विभुत्वानुमानानि च बाधितानि । यत्तु-मनो विभु सर्वदा स्पर्शरहितद्रव्यत्वात् ज्ञानासमवायिसंयोगाधारत्वात् नित्यत्वे सति द्रव्यानारम्भकद्रव्यत्वात् आत्मादिवत् इत्यादि ।
आनन्ददायिनी पीन्द्रियत्वादिति भावः । इदमुपलक्षणं-'एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च' इति विशेषवचनात् । प्रकृत्येकदेशेति-अहङ्कारस्य प्रकृत्यकदेशतया तत्परिणामम्या(णामनसो)प्येकदेशत्वनियमादिति भावः । विशिष्य दूषणानि वक्तुम(क्तुंतदुक्ता)नुमानान्यनुभाषतेयत्त्वित्यादिना । स्पर्शरहितद्रव्यत्वादित्युक्तौ आद्यक्षणवर्तिघटादौ व्यभि. चारः ; तद्वारणाय सर्वदेति । यत्किञ्चिद्राहित्यवति परमाणौ व्यभिचारवारणाय स्पर्शेति । गुणे व्यभिचारवारणाय द्रव्यत्वादिति । ज्ञानासमवायीति–परमाण्वादौ व्यभिचारवारणाय ज्ञानेति । असिद्धिशङ्कावारणाय संयोगेति । विषयव्यभिचारवारणाय असमवायीति । नित्यत्वं च परमाणौद्रव्यानारम्भकद्रव्यत्वं च घटादौ ; नित्यत्वे सति द्रव्यानारम्भकत्वं च जात्यादौ व्यभिचारीति विशेषणानि । आदिशब्देन सर्वदा विशेषगुणशून्यद्रव्यत्वादिकं(विवक्षितम्) द्रष्टव्यम् । सर्वेषामनुमानानामात्मनि व्यभि;
भावप्रकाशः इत्यादितो राज्ञोऽपुरुषत्वं यथा न सिध्यति तथा 'एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च' इत्यादिश्रुतिभ्योऽपि मनसोऽनिन्द्रियत्वं न सिध्यतीति भावेन मनउत्पत्तीत्यनभिधाय इन्द्रियोत्पत्तीत्युक्तम् । SARVARTHA.
30