SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ सरः] एकदेहैकेन्द्रियवादे श्रुत्याबाधः श्रौतेगौरवस्यादोषता सर्वदेहैकेन्द्रियापत्तिश्च 461 तत्वमुक्ताकलापः भवेदागमेनैव बाधः । नो चेत्स्याद्देहभेदप्रतिनियत . सर्वार्थसिद्धिः न्तरादौद्भट्यसूचनाय प्राथम्योक्तः। आगमेनैव-धर्मिग्राहकेणैवेत्यर्थः। गौरवदोषश्च क्लाप्तिपक्षे वक्तव्यः नास्मत्पक्ष इति चाभिप्रेतम्। इन्द्रियक्लप्तिः प्रागेव निरस्ता । अत्र तदेकत्वक्लप्तावतिप्रसङ्गमाह-नो चेदिति । यथैकमेवाकाशं तत्तत्पुरुषादृष्टोपार्जितकर्णशष्कुल्यवच्छेदभेदैः प्रतिपुरुषं व्यवस्थितोपकारकमिति वैशेषिकादिभिः कल्प्यते तथा त्वयाऽपि एकमेवेन्द्रियं तत्तद्भोगायतनभेदनियतशक्तिकं सर्वोपकारकं कल्प्यमिति भावः । नचैवमस्त्विति वाच्यम् ; अपसिद्धान्तात् । ननु नानादेहमध्येषु वसतः कथमेकत्वमिति चेत् ; चक्षुर्गोळकाद्यवच्छिन्नानां इन्द्रियप्रदेश आनन्ददायिनी | रादिति-नो चेदित्यादिदूषणान्तरादित्यर्थः । भिन्नेन्द्रियक्लप्तिपक्षे तदुक्तं परिहरति--गौरवदोषश्चेति । इन्द्रियक्लप्तिरिति-कल्प्यत्वे गोळकातिरिक्तं न सिध्येदित्यादिना निरस्तेत्यर्थः । अतिप्रसङ्गमेवोपपादयति-- यथैकमेवाकाशमिति । तत्तद्भोगायतनं-तत्तच्छरीरं तत्तदिन्द्रियाधिष्ठानं वा । अपसिद्धान्तादिति – 'प्रतिपुरुषभिन्नं तदायतनसंज्ञितम्' इत्युक्तेरिति भावः । नानादेहमध्येष्विति–नानादेशस्थदेहान्तराळदेशेवित्यर्थः । ननु नानादेहमध्येषु सत्त्वमसिद्धं । नचानुपलम्भस्साधकः योग्यानुपलम्भाभावात् ; न च मध्यदेशेऽपि तत्सत्त्वे कार्यप्रसङ्गः भोगायतनावच्छेदेनैव तदनुकूलशक्तिनैयत्यादिति परिहारे सत्येव प्रतिबन्धा समाधत्ते-चक्षुर्गोळकेति । चक्षुश्श्रोत्रगोळकमध्ये तदवयवानामभावात्
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy