SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ सरः] करणगणपाठस्य करणत्वासाधकता पाठस्योपपत्तिश्च 457 आनन्ददायिनी अथैष ज्योतिः अथैष विश्वज्योतिः अथैष सर्वज्योतिः एतेन सहस्रदक्षिणेन यजेत' इति । तत्रैतच्छब्दपरामृष्टानां ज्योतिरादिशब्दानां योजना सामानाधिकरण्याद्यागनामत्वं तावत्सिद्धम् । तत्र प्रकृतमेव ज्योति(ष्टोमज्योतिरादिशब्दैरनूय सहस्रदक्षिणारूपगुणो विधीयत इति पूर्वपक्षयित्वा नामान्तरश्रुतौ तावदर्थभेदः प्रतीयते संज्ञाभेदस्यार्थभेदकत्वात् प्रकृतात् ज्योतिष्टोमाद्भेद उक्तः । तथा शब्दान्तराधिकरणे (प)च यजति ददाति जुहोतीति शब्दभेदात् भेद उक्त इति तन्नयायेनात्रापि भेदस्स्यादिति चेत् ; अत्राहुः---न तावत् संज्ञाभेदस्योक्ताधिकरणन्यायेन भेदकत्वं बलवता बाधकेन बाधितत्वात् । तदुक्तं तदधिकरणराद्धान्ते-- बलवद्वाधकाच्चासावन्यथात्वं प्रपद्यते । इति । प्रकृते च एकादशत्ववचनानि बाधकानि । नापि शब्दाधिकरणन्यायः! वेदनध्यानोपासनानां भेदप्रसङ्गात् । आहवनीयादिशब्दानां पशुच्छागादिशब्दानां हविःपुरोडाशादिशब्दानामाप भेदकत्वापत्त्या बहुदोषप्रसङ्गात् । तस्मादत्रापि बाधकाभावे भेदकत्वं वाच्यम् । बाधककरं चात्रोक्तमेवेति । केचित्तु-तेषां भेदोऽस्तु नाम ! नच करणत्वमपि ! तत्साधकाभावात् । अत एव न शब्दान्तराधिकरणविरोधोऽप। नच भाष्यमूलयोर्विरोधः! इन्द्रियत्वं करणत्वं चाभ्युपेत्य प्रवृत्तेः । नच करणमध्ये पाठात् करणत्वप्रसक्तिः ! अनुवादसन्निधेरकिञ्चित्करत्वात्। पुरोवादे महतोऽहकारस्य च तत्वान्तरोपादानतया करणत्वेन्द्रियत्वाभावात् । अत एवाङ्गत्वाभावनिश्चयाद्दर्शपूर्णमासाभ्यामिष्ट्वा सोमेनयजेतेत्यत्र कालार्थस्संयोगो नाङ्गाङ्गिभावार्थ इयुक्तम् । महदाद्यतिरिक्तपरत्वे तु तत्वाधिक्यप्रसङ्गः । ज्ञानादिपरत्वेनान्यथासिद्धिश्च । अहङ्कार शब्दोऽपि ज्ञानपर एव बुद्धिशब्दसन्निधानात् । युक्तं च तथा ज्ञान
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy