SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ सरः] इन्द्रियानुमानानां श्रौताहङ्कारिकत्वाबाधकता लयश्रुत्यविरोधश्च 441 तत्वमक्ताकलाप: किंतु प्रवेश सर्वार्थसिद्धिः पर्यायेष्वप्यनुषङ्गेण भाव्यं वैरूप्यायोगात् । इन्द्रियाणामाकाशप्रकृतित्वं च सर्वोपबृंहणविरुद्धम् । अस्यां चोपनिषदि भूतादेराकाशः आकाशाद्वायुः इत्यादिसृष्टिक्रम उक्तः, षोडशविकारा' इति श्रुतेश्वासामञ्जस्यं स्यात् । अतो वरमधिकरणत्वोक्तिमात्रानुसारादाकाशस्येन्द्रियेषु तेषां च आकाशारम्भकतन्मात्रेषु प्रवेशविशेषाभिधानं इत्यभिप्रायेणाह-किंतु प्रवेशमिति । अयं भावःयद्यप्याकाशस्येन्द्रियैः प्रागपि संबन्धः; तथापि तत्तदिन्द्रियाप्यायकभूतांशानां स्वकारणयक्रमात् आकाशदशापन्नत्वात् तदानीमिन्द्रियेष्वाकाशस्यैव संसर्गः अनन्तरमाकाशे च शब्दतन्मात्रावस्थे तानीन्द्रियाणि शब्दतन्मात्रसंसर्गीणि भवन्ति । आनन्ददायिनी वैरूप्यं च सोढव्यमिति चेत् ; अनुषङ्गं विनाप्यर्थबोधकत्वेन वाक्यपरिसमाप्तौ वैरूप्यमभ्युपगम्य तत्कल्पनायोगात् । सोपबृंहणैतदुपनिषद्विरोधाच्चानुषङ्गो न युक्त इत्याह --इन्द्रियाणामिति। भूतादिः -- तामसाहङ्कारः । षोडशेति-विकाराणां न्यूनत्वप्रसङ्गादिति भावः । नन्वनुषङ्गाभावे कथं वाक्यपरिसमाप्तिरित्यत्राह- अतो वरमिति । नन्वेवमपि प्रवेशनक्रियाया अश्रवणात् तदध्याहारादनुषङ्ग एव वरमित्यत्राह--अयं भाव इति । संसर्ग एव प्रवेशः ; स च सप्तम्यर्थ इति नाध्याहार इति भावः । ननु सर्वेषामाप्यायकभूतानां तत्तन्मात्राणां च लयक्रमेण आकाशदशापत्तिः तस्यापि लयक्रमाच्छब्दतन्मात्रतापत्तिरिति तन्मात्रसंसर्गे इन्द्रियाणि तन्मात्रोष्वति सप्तमीबहुवचनमनुपपन्नं ;
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy