SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ तत्वमुक्ताकलापसर्वार्थसिद्धयोः प्रणेतुराचार्यस्य वेङ्कटनाथ इत्येव पितृकृतं परिपूर्णाभिधेयं सुगृहीतं नाम ॥ निगमान्तगुरुःश्रुत्यञ्चलाचार्य इत्यादि तु बिरुदनाम्नो वेदान्ताचार्यपदस्य पर्यायतया शिष्यपरम्परया प्रवर्तितं प्रथितमास्ते ॥ 1V वेदान्ताचार्य इति बिरुदलाभक्रमस्तु प्रसिद्धात्तदीयचरित्रादवगम्यते । ' तेन देवेन दत्तां वेदान्ताचार्यसंज्ञाम्' इति च आचार्योऽप्यनुवदति अधिकरणसारावल्लयाम् ॥ श्रीमतो वेङ्कटनाथगुरोः पिता अनन्तसूरिः पितामहः पुण्डरीकाक्षसूरिः । निबबन्ध च ग्रन्थादावाचार्य: नानासिद्धान्तनीतिश्रमविमलधियोऽनन्तसूरेस्तनूजो वैश्वामित्रस्य पात्रो विततमखविधेः पुण्डरीकाक्षसूरेः । इति । माता च तोतारम्बेति तच्छिष्यजननित्यानुसन्धेयात्यस्तनयस्तोतारम्बायास्तस्य मङ्गलम् । इति मङ्गलाशासनात् गुरुपरम्परयोपदेशाच्च ज्ञायते ॥ श्रीवेङ्कटनाथगुरोः सर्वविधगुरुर्मातुलश्च श्रीमान् षीवैभवासादितवेदान्तोदयनबिरुदः भगवतो भाष्यकारादुत्तरं मन्त्रार्थसम्प्रदायप्रवर्तकस्य आत्रेयरामानुजाचार्यस्य पौत्रः श्रीमान् आत्रेयो रामानुजाचार्यः । इद मप्यत्रैवाह गुरुः - श्रुत्वा रामानुजाचार्यात्सदसंदपि ततस्तत्वमुक्ताकलापं व्यातानीद्वेङ्कटेशः । इति । परमगुरुश्च वात्स्यः श्रीमान् वरदाचार्य इत्यपि वरदगुरुकृपालम्भितोद्दामभूमा इति पूर्वोक्त पद्यभागादवगम्यते ॥ --
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy