________________
सरः] कार्यावान्तरबैजात्यस्यापि कार्यकारण भावसाधकता दूषणदिक्प्रदर्शनं च 417
सर्वार्थसिद्धिः द्युत्पत्ती सामान्यतो विशेषतश्च हेतुकार्यभावो मन्तव्यः । तत्र कार्यवैजात्यं न दृश्यत इति चेन्न; अनुपलब्धवैषम्याणामप्यायुर्वेदादिषु शक्तिभेदसिद्धेरवान्तरबैजात्यस्य स्वीकार्यत्वादिति ॥ * 'साङ्ख्यसौगतचार्वाकैरन्येऽप्येवमुपप्लवाः ।
आनन्ददायिनी यद्वा-वह्निफूत्कारादिसमवधानस्थले यज्जातीये (तीयसमवधाने) सति वह्निजाती (यकार्य) यो (यस्यो) त्पत्तिः यज्जातीयाभावे वह्निजाती (याभावः) योत्पत्त्यभावः इति सामान्य कार्यकारणभावः, वह्नित्वावान्तरजातिविशेषावच्छेदेन विशेषकार्यकारणभावश्चेत्यर्थः । अनुपलब्धेति । तृणादिजन्येषु वैषम्यमुपलभ्यत एव ; तथाऽप्यनुपलम्भमात्रान्नाभाव इति भावः । साङ्खयेति-कार्यकारणभावम्यानतिप्रसक्तस्य दुर्वचत्वात् ग्राहकस्यापि
भावप्रकाशः * साङ्खयेति --... कूटस्थं निधर्मकं चिद्वस्तु न कारणम् ; कारणत्वे आगन्तुकधर्माङ्गीकारस्यावश्यकतया----
उपयन्नपयन् धर्मो विकरोति हि धर्मिणम् । इत्युक्तदिशा परिणामित्वेन कौटस्थ्यहानिप्रसङ्गात्' इति साङ्ख्या वदन्ति ।
न सन्नुत्पद्यते भावो नाप्यसन् सदसन्न च ।
न स्वतो नापि परतो न द्वाभ्यां जायते कथम् । इति सौगताः । परमतभङ्गादावेतदुपप्लवशमनं बोध्यम् । अथ साङ्ख्यवत् चिद्वस्तु न परिणामकारणमिति मते माध्यमिकनयेन प्रत्यवतिष्ठमानैः खण्डनकारैः खण्डनचतुर्थपरिच्छेदोक्तानां दूषणानां परिहारः पूर्वमुक्त इति तत्प्रथमपरिच्छेदोक्तदूषणमुद्धर्तुमनुवदति--
SARVARTHA.
27