________________
सरः]
त्रिगुणपरीक्षायां संघशब्दार्थः पूर्वोक्तदृष्टन्तासिद्धयुपपादनं च
393
सर्वार्थसिद्धिः द्धतोः सङ्घभावः सोऽपि स्थिरतरः । यस्तु चरमस्सहकारी स च स्थिर एव सन् स्वकार्यप्रागभावोपहितरूपः कालमवच्छिन्दन् क्षणोपाधिरित्युच्यते । तदुपधानं च तस्य प्रत्यक्षादिसिद्धं । न चात्र क्षणिकं किञ्चित् सिध्यति! अनवच्छिन्नस्य कालतत्वस्य कालपारच्छेदलक्षणानित्यताभावात्
क्रियादिश्च स्थिरोऽप्येवं क्षणोपाधिर्विशेषकैः ।
तत्प्रकर्षनिकषैस्तु तत्तत्कालप्रकल्पना ॥ इयं तावत् सर्वलोकसाक्षिकी; क्षणकालावच्छेदकयोः प्रागूर्ध्व
आनन्ददायिनी दृष्टान्ततेत्यर्थः । तथाच यत्किञ्चित्कार्यचरमकारणतत्प्रागभावावच्छिन्नकालत्वं क्षणत्वमिति पर्यवसितोऽर्थः । तदुपधानं-तत्प्रागभावोपधानं । तस्य-चरमकारणस्य । ननु क्षणकाल एव दृष्टान्त इत्यत्राह--- अनवच्छिन्नस्येति । तत्र किमवच्छिन्नः क्षणो विवक्षितः उत कालस्वरूपमात्रं ? नाद्यः ; क्षणश्च कालः उपाधिस्तत्संबन्धश्चेति त्रयमेव । तत्र प्रागभावचरमकारणयोः स्थिरत्वात् तत्संबन्धोऽपि स्थिर एव । तत्र कालस्वरूपं च स्थिरमेव । न द्वितीयः ; अवच्छिन्नस्य कालस्वरूपमात्रतया तस्य नित्यत्वादिति भावः । ननु काले कालसम्बन्धाभावात् कथं तस्य नित्यत्वं ? इत्यत्राहकालपारच्छेदेति । वस्तुनो ह्यनित्यत्वाभावे नित्यत्वभावः । एवं सामग्रीवत् क्रियाऽपि किञ्चिदवच्छिन्ना क्षणोपाधिरित्याह-क्रियादिश्चेति । अदिशब्देन अवस्थाऽपि विवक्षिता । तत्प्रकर्षनिकषैः--क्रियारूपक्षणोपाधिप्रकर्षनिकषैः -अधिकन्यूनभावैः । यद्वा-क्षणप्रकर्षनिकषैः दिवसमासवत्सरादिकल्पनेत्यर्थः । क्षणकालावच्छेदकयोः-कार्यप्रागभावचरमकारणयोः । प्रागूधैति-प्राक्का