________________
388
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
* न च त्वमपि कुत्येषु निरन्वयविनाशवित् । मत्सन्तानसमृद्ध्यर्थामिति मत्वा प्रवर्तसे !
[जडद्रव्य
आनन्ददायिनी
भुवनपरः । त्रयो लोका यस्येति बहुव्रीहिः । तथाच कस्यापि प्रवृत्तस्य फलप्राप्तयभावात् प्रवृत्तिर्न स्यादिति भावः । ननु सन्तानैक्यात्प्रवृत्तिस्सम्भवतीत्यत्राह – नचेति । तथाच स्वानुभवबाघ इति भावः । आदिशब्देन इच्छादिर्गृह्यते । विमतं स्थिरं वस्तुत्वात् आत्मवत्
भावप्रकाशः
फलभावनियतरूपाणां संस्काराणां प्रबन्धमेकत्वेनाध्यवसाय स एवाहं करोमीति व्यवहरति मुक्तये च प्रवर्तते । तदभिमानानुरोधेन च भगवन्तस्तथागताः समुच्छेददृष्टिप्रपाततो विनेयजनारिरक्षिषया सन्तानैकतां दर्शयन्तः कर्तृत्वादि व्यवस्थापयन्ति । तथाविधाया एव व्यवस्थातो वस्तुसिद्धिरिति चेदाह – नाङ्गं सेत्यादि । न हि तत्वपरीक्षा पराङ्मुखमर्तानां संवृतिपतितानां बालजनानामभिनिवेशवशेन शक्यं तत्वं व्यव - स्थापयितुम्! तदभिनिवेशस्य नैरात्म्यक्षणभङ्गविहितप्रमाणबाधितत्वात्, इति कमलशीलः । तत्र विनेयजनाशयानुसारेण अतत्वोपदेशः वञ्चनामात्रमिति भावेन तद्दूषयति * न च त्वमपीति । अपिर्विरोधे | भवमतरीत्या अज्ञत्वे निरन्वयविनाशस्य ज्ञानित्वे सन्तानसमृद्ध्यर्थत्वस्य च बोधो न सम्भवति -
'अहीनसत्वद्दष्टीनां क्षणभेदविकल्पना । सन्तानैक्याभिमानेन न कथञ्चित्प्रवर्तते ॥ ५४१ ॥