________________
सरः]
त्रिगुणपरीक्षायां क्षणिकशब्दार्थविकल्पाः तदूषणानिच
385
सर्वार्थसिद्धिः ज्ञया च बाधः प्रागुक्तः । न चतुर्थः । उक्तबाधादेव । क्षणेतरस्य तथात्वे खपुष्पवदसत्त्वप्रसङ्गस्य दुर्वारत्वात् । त्वन्मते च खपुष्पनिदर्शनेन प्रसञ्जनं युक्तं । एवमपि हि ब्रूथ
तस्माद्वैधर्म्यदृष्टान्ते नेष्टोऽवश्यमिहाश्रयः ।
तदभावे च तन्नेति वचनादेव तद्गतेः ॥ इति । अन्येऽपि केचिदाहुः
यस्मिन्ननित्यता नास्ति कार्यतापि न विद्यते ।
तस्मिन् यथा खपुष्पादौ इति शक्यं हि भाषितुम् ।। इति । न पञ्चमः; तद्देशतद्वर्तिनोरिव कालतद्वर्तिनोरेक्यस्य प्रत्यक्षेण बाधात् । तत एव न षष्ठः। यदा हि घटादयः
आनन्ददायिनी प्रतिहतिमाह-क्षणेतरस्येति । विवादाध्यासितमसत् क्षणेतरत्वे सति क्षणद्वयसम्बन्धशून्यत्वात् इत्यर्थः । ननु सर्वत्र प्रामाणिकस्यैव दृष्टान्तत्वात् खपुष्पनिदर्शनेन प्रतिरोधो न युक्त इत्यत्राह-त्वन्मते चेति । क्षणिकत्वसाधने असतो विपर्ययदृष्टान्तकरणादिति भावः । तदीयसंमतिमाह-एवमपीति । ननु व्यतिरेकव्याप्तिः कथं गृह्यते ? यदक्षणिकं तदसत् यथा खपुष्पमिति व्याप्तिग्रहाधिकरणस्याप्रामाणिकत्वात् प्रामाणिकस्यैव सर्वत्र दृष्टान्तत्वादिति शङ्कायां ' तदभावे च तन्न' इति वचनादपि व्यतिरेकव्याप्तेरवगमो यस्मात्तस्माद्वैधर्म्यदृष्टान्ते व्यतिरेकव्याप्तिग्रहे आश्रयापेक्षानियमो नास्तीत्यपि ब्रूथेत्यर्थः । तथाच प्रतिरोधो न (सम्भवति) युक्त इति भावः । अन्येऽपि-सौगतैकदेशिनोऽपि । अनित्यता-क्षणिकत्वं । अन्ये नैयायिकैकदेशिन इत्य(परेड)प्याहुः । बाधादिति-अस्मिन् क्षणे अयं वर्तत इति भेदग्राहित्वात्प्रत्यक्षस्येति भावः । तत एवेति-क्षणोपाधेश्च भेदग्राहिप्रमाणबाधादेवेत्यर्थः । भेदग्रहमेवोपपादयति—य(दि)दा हीति । सर्वपदार्थानां
SARVARTHA.