________________
सरः]
वासनाफलव्यवस्थानुपपत्तिः क्षणिकत्वसाधनान्तरानुवादश्चै
383
तत्वमुक्ताकलापः जगत्स्यात् क्षणोपाधिवञ्चेत बाधो
सर्वार्थसिद्धिः सत्त्वात् '* भासमानत्वाद्वा । अत्र स्यादित्यनेन अक्षणिकतायामसत्त्वप्रसङ्गस्सूच्यते । अर्थक्रियाकारित्वं हि सत्त्वम् ! तच्च कुर्वक्षणस्यैवास्ति । अकुर्वत्क्षणस्य तु तदभावादसत्त्वं प्राप्तमिति । घटजलधरादौ दृष्टान्तिते साध्यवैकल्यं क्रमेण कथञ्चित्परिहर्तव्यं ; इह तु न तथेत्यभिप्रायेण क्षणोपाधिवचनम् । इतिरौचित्यादाक्रष्टव्यः। अत्र बाधोक्तिस्साध्यविकल्पेन वहुधा भाव्या
आनन्ददायिनी पन्नं । प्रयोगप्रदर्शनमिदं तन्मते उदाहरणोपनययोरेव प्रयोक्तव्यत्वात् । आदिशब्दार्थमाह -भासमानत्वाद्वेति । स्यादित्यनेनेति-स्यादित्यस्य सत्त्ववाचित्वात् क्षणिकं स्यादिति समभिव्याहारेण सत्त्वव्यापकं क्षणिकवमिति गम्य(मानत्वादिति)त इति भावः । क्षणिकत्वस्य सत्त्वव्यापकत्वे अनुकूलतर्कमाह-अर्थक्रियाकारित्वमिति । क्षणिकत्वाभावे कुसूलस्थानां बीजानामङ्कुरादिरूपकार्यजनकत्वरूपकुर्वत्त्वाभावात् सत्त्वं न स्यात् ; क्षणिकत्वे तु पूर्वपूर्वेषां क्षणानां उत्तरोत्तरक्षणजनकत्वात् कुर्वत्त्वं सिध्यतीति भावः। इतिरिति-तथाच क्षणोपाधिवदितीति मूले सम्बन्धः । बाधोक्तिरिति-विशेषानुपादानादिति भावः । यद्यपि क्वचित्कचिद्विकल्पे
भावप्रकाशः लाघवादाह '* भासमानत्वादिति--विषयत्वादित्यर्थः । ज्ञानविषयत्वं ज्ञानजनकत्वमिति वैभाषिकसिद्धान्तेन _अक्षणिकत्वे जनकताऽनुपपत्त्या सत्त्वहेतुवदस्यपि क्षणिकत्वसाधकता संभवतीति भावः ।