SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ 364 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य भावप्रकाशः मकृत्वा सर्वोपसंहारेण व्याप्तिग्रहणं न संभवति देशकालान्तराननुगमात् ; यथोक्तं कुमारिलेन-- . .. ___ न चान्वयविनिर्मुक्ता प्रवृत्तिर्लिङ्गशब्दयोः । । इति । न च क्षणग्रहणे संतानग्रहणवत् रूपमात्रग्रहणे घटनिश्चयवच्च अतद्रुपपसवृत्तयोस्साध्यसाधनयोः प्रत्यक्षाध्यवसेयतया व्याप्तिग्रहोपपत्तिरिति रत्नकीर्युक्तं युक्त ; क्षणसंतानयोरूपघटयोश्चैकज्ञानीयैकजातीयविषयत्वमेवेत्यध्यवसेयत्वाख्यविलक्षणविषयताङ्गीकारस्यायुक्तत्वात् माध्यमिकैरप्यनुभवविरोधेन दूषितत्वाच्चेति बुद्धिसरे विवेचयिष्यमाणत्वात् । नापि व्यापकानुपलम्भात्मना विपर्यये बाधकप्रमाणेन व्याप्तग्रहस्संभवति; यस्य क्रमाक्रभिकार्यविषयत्वं नास्ति न तच्छक्तं यथा शशविषाणं नास्ति नित्याभिमतस्य भावस्य क्रमाक्रमिकार्यविषयत्वमिति व्यापकानुपलम्भस्य अक्षणिकाज्ञानेऽसंभवात् । न ह्यस्माभिः स्वातन्त्रयेण प्रमाणतया व्यतिरेकसाधिन्या अस्या व्यापकानुपलब्धेः प्रयोगः क्रियते! किं तर्हि; प्रसङ्गापादनं परं प्रति क्रियते' इति तत्वसंग्रहपश्चिकाक्तं तु न युक्तं ; एतत्पक्षस्य क्षणभङ्गसिद्धौ ‘न तावदयं प्रसङ्गो हेतुः साध्यधामणि प्रमाणसिद्धत्वात् पराभ्युपगमसिद्धत्वाभावात् विपर्ययपर्यवसानाभावाच्च' इति रत्नकीर्तिनैव दूषितत्वात्। ननु क्षणभङ्गसिद्धौ रत्नकीर्तिना-' इह वस्तुन्यपि धर्मिधर्मव्यवहारो दृष्टो यथा गवि गोत्वं पटे शुक्लत्वं तुरगे गमनमित्यादि । अवस्तुन्यपि धर्मिधर्मव्यवहारो दृष्टो यथा शशविषाणे तीक्ष्णत्वाभावो वन्ध्यापुत्रे वक्रत्वाभावो गगनारविन्दे गन्धाभाव इत्यादि । तत्रावस्तुनि धर्मित्वं नास्तीति किं वस्तुधर्मेण धर्मित्वं नास्ति आहो स्विदवस्तुधर्मेणापि ? प्रथमपक्षे सिद्धसाधनं । द्वितीयपक्षे तु स्ववचनविरोधः । यदाहुर्गुरवः-- धर्मस्य कस्यचिदव[२०]स्तुनि मानसिद्धा . ; बाधा विधिव्यवपतिः किमिहास्ति नो वा।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy