SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ 358 सव्याख्यसर्वार्थसिद्धिसाहेततत्वमुक्ताकलापे . [जडद्रव्य तत्वमुक्ताकलापः काले कालानपेक्षे कथमपि सुवचौ नानवस्था सर्वार्थसिद्धिः विरोधानवस्थयोश्शङ्कापि नास्तीत्याह-काले इति । न ह्ययमपि काल एतस्मिन् काले किमुत कालान्तरं! तत्कालोऽपि न तस्मिन् काले; किमुतायं? अत एतत्कालतत्कालौ वा कालान्तरं वा अनपेक्ष्य एकस्मिन् वस्तुनि कालद्वयं संबध्यते इति स्थिते कथञ्चिदप्यनवस्थाविरोधयोर्नावकाशः । तथापि कालद्वयं परस्पराभावनान्तरीयकं तदात्मकं वा कथमेकत्र स्यादिति चेन्न; कालद्वयस्यान्योन्यसिन्नभावेऽपि तदुभयसंबन्धिनि वस्तुन्यभावाभावात् । यस्तु तस्मिन् वस्तुन्यसंबद्धः कालः तस्य तत्र सद्भावं न ब्रूमः । न हि वयं नित्यानित्यविभागं निराकुर्मः! ॥२६॥ आनन्ददायिनी साधनमित्यर्थः । एतस्मिन्निति । न वर्तत इति शेषः । किमुतेतिअयमेव काल एतस्मिन् न वर्तते चेत् भूतकालादौ तद्वत्तिताशङ्का दूरे इत्यर्थः । परस्पराभावनान्तरीयकमिति–परस्पराभावव्याप्तमित्यर्थः । कालद्वयस्येति—परस्पराभावनान्तरीयकत्वे परस्पराभावरूपत्वेऽपि वा कालिकविरोधितया नैकास्मन् काले तवयं सम्बध्नाति । एकस्मिन् वस्तुनि सम्बन्धे न विरोध इत्यर्थः । नन्वेवं सति सर्वकालानां वस्तुसम्बन्धे विरोधाभावात् सर्व वस्तु सर्वकालसम्बन्धीति सर्व नित्यं स्यात् । तथा च नित्यानित्यविभागो न स्यादित्यत्राह-यस्त्विति , न हि वयं तत्रासम्बद्धकालसम्बन्धमपि ब्रूमः ! येन नित्यानित्यविभाग निराकुर्म इत्यर्थः ॥ २६ ॥
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy