SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ सरः] तत्त्वेदन्त्वयोरेकधर्मिसंबन्धायोगादप्रमात्वशङ्का प्रत्यभिज्ञायाः 353 तत्वमुक्ताकलापः अत इह न मितिः प्रत्यभिज्ञेति चेन्न। . सर्वार्थसिद्धिः प्रत्यभिज्ञा न प्रमितिः। 1* विरुद्धविषयत्वात् शुक्तिरूप्यधीवत् प्रत्यभिज्ञात्वादेव वा दीपादिप्रत्यभिज्ञावदिति चेत् ? अत्र न कालद्वयमात्रं वस्तुनि विरुद्धं । विरुद्धकालान्वयस्तु नास्तीत्यभिप्रायेण प्रतिवक्ति-नेति । ... *अतत्तामनिदन्तां च तत्त्वेदन्त्वे निरस्यतः। ...... - अन्योन्यप्रतिषेधस्तु न ततस्सेछुमर्हति ॥ आनन्ददायिनी इत्यनवस्थेत्यर्थः । कालद्वयमात्रं-कालद्वयसम्बन्धमात्रं । ननु तत्तेदन्तयोरन्योन्यप्रतिक्षेपकत्वात् कथमेकत्रेत्यत्राह-अतत्तामिति । तत्ता स्वाभावं इदन्ता च स्वाभावं तत्तेदन्ते च प्रतिक्षित इत्यर्थः । ततःतस्मात् । तत्तदन्तयोः प्रतिक्षेपकत्वं सेद्धं (सोढुं) भवितुं नाहतीत्यर्थः । .. . भावप्रकाशः कामा '* विरुद्धविषयत्वादिति अभेदाध्यवसायेन भिन्नरूपेऽपि वृत्तितः । इति तत्वसंग्रहवाक्यमत्रानुसन्धेयम् । 2* अतत्तामित्यादि-तदंशेन नैतकालसंबन्धव्यवच्छेदः किंतु तत्कालासंबन्धस्य । इदमंशेनापि न तत्कालसंबन्धव्यवच्छेदः अपि तु एतत्कालासंबन्धस्यैवेत्यर्थः । अयमाशयःधर्मिणि तदंशस्य पूर्व प्रत्यक्षतो निश्चयेऽपि एतत्कालासंबन्धभ्रमम्संशयो वा न ततो निवर्तते । इदमंशमात्रप्रत्यक्षे च धर्मिणि तत्कालासंबन्ध SARVARTHA. 23
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy