SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ 344 सव्याख्यासर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य सर्वार्थसिद्धिः *कदाचित् विकलौरति प्रयोजकभेदेनेत्यर्थः। *अकुर्वत्स्वभावस्य आनन्ददायिनी मपुष्कलसहकारिसान्निध्यं चेत्यर्थः । भेदो—विशेषः । भावप्रकाशः विरोधौ ; एकेन विरोधेन शीतोष्णस्पर्शयोरेकत्वं वार्यते अन्येन सहावस्थानम्' इति च आह । अतोऽत्राऽपि न विरोध इति व्यञ्जयति-- '* कदाचिद्विकलौरत्यनेन । अत्र धर्मोत्तराचार्येण विरोधस्य वास्तवत्वोपंपादनेन द्विविधाः क्षणिका भावाः केचिद्धासस्य कारकाः । शीतादेरेव वयाद्या अपरे न तथाविधाः ॥ ४४१ ॥ अदृष्टतत्वो लोकस्तु विरोधमभिमन्यते । कार्यकारणभावेऽपि प्रथमोक्तेष्वनेकधा ॥ ४४२ ॥ बाध्यबाधकभावोऽपि वस्तुनो नैव तात्विकः । विद्यते तत एवोक्तं विरोधगतिरित्यपि ॥ ४४३ ॥ इति तत्वसंग्रहोक्तिरनुचितेति बोधितम् । अस्त्वेवं किन्तु साकल्ये या तस्य प्रकृतिर्मता । वैकल्ये सैव चेदिष्टा नित्यास्म्युस्सहकारिणः ॥ ४११ ॥ तत्संबद्धस्वभावस्य भावे तेषामपि स्थितेः । अन्यच्चेद्विकलं रूपमेकत्वमवहीयते ॥ ४१२ ॥ इति शान्तरक्षितोक्तदूषणमभिप्रेत्य शङ्कते-*अकुर्वत्स्वभावस्येत्यादि। तत्वसंग्रहे क्षणिकत्वपक्षे भदन्तयोगसेनोक्तसहकारित्वाद्यनुपपत्तिरित्थं परिहृता उच्यते प्रथमावस्था सैवान्योऽन्योपकारिणः । एकार्थक्रियया त्वेते भवन्ति सहकारिणः ॥ ४३५ ॥
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy