________________
सरः
त्रिगुणपरीक्षायां क्षणभङ्गावतरणम्
319
सर्वार्थसिद्धिः त्रयप्रतिपक्षं 1* वैनाशिकमतं
आनन्ददायिनी वैनाशिको-बौद्धः । विनाशं व्यवहरतीति ठक् ।
भावप्रकाशः इत्यादिना स्वपक्षदूषणोद्धारः कृतः । आचार्यैश्च नित्यात्मतत्वाङ्गीकर्तृवैभाषिकैकदेशिमते परमतभङ्गे क्षणिकतत्वसाधकहेतोर्विरोध उद्भावित इति नैतत्पक्षस्साधीयानित्याचार्याणामाशयः । वैनाशिकत्वं च नैतेषां । परमाण्वादीनां निरन्वयविनाशानङ्गीकारात्खलु काणादानामाक्षपादानामर्धवैनाशिकता । वस्तुसामान्यस्य निरन्वयविनाशमङ्गीकुर्वतामेव वैनाशिकता न तु स्थिरद्रव्यमभ्युपगच्छतामिति । एतदेवाभिप्रेत्य अत्र बौद्धमतमित्यनुक्ता 1* वैनाशिकमतमित्युक्तिः । वैनाशिकशब्देन
तत्र ये कृतका भावाः ते सर्वे क्षणभाङ्गनः ।
विनाशं प्रति सर्वेषामनपेक्षतया स्थितेः ॥ ३५३ ॥ इत्युपक्रम्य तत्वसंग्रहे क्षणिकत्वसाधनावसरे उक्ता युक्तिस्सूच्यते । तत्रैव
अथवाऽस्थान एवायमायासः क्रियते यतः । क्षणभङ्गप्रसिद्धयैव प्रकृत्यादि निराकृतम् ॥ उक्तस्य वक्ष्यमाणस्य जात्यादेश्वाविशेषतः ।
निषेधाय ततः स्पष्टं क्षणभङ्गः प्रसाध्यते ॥ ३५१॥ इति वैनाशिकमतस्य पक्षत्रयप्रतिपक्षताऽपि स्फुटमभिहिता इति ।
न खलु प्रत्यभिज्ञानं प्रत्यक्षमुपपद्यते । वस्तुरूपमनिर्देश्यं साभिलाषं (पं)च तद्यतः ॥ ४४६॥ भ्रान्तं च प्रत्यभिज्ञानं प्रत्येकं तद्विलक्षणम् । अभेदाध्यवसायेन भिन्नरूपे प्रवृत्तितः ॥