________________
सरः]
उत्पत्तेः अर्थान्तरत्वे औचित्यं अनवस्थापारहारश्च
313
सर्वार्थसिद्धिः * नचदृश्या उत्पत्तेरीदृशमुत्पत्त्यन्तरमस्ति! तथापि * प्रागसिद्धस्वरूपलाभादुत्पत्तिशब्दः
आनन्ददायिनी न स्यादित्यत आह-नचेदृश्या इति ।
भावप्रकाशः प्रयोगोपपत्तिरित्यर्थः । '* नचेत्यादि-आद्यक्षणावच्छिन्नघटत्वावस्थाया उत्पत्तिपदार्थत्वे घटत्वावस्थायामवस्थान्तरविरहेण घटत्वावस्थोत्पद्यते इति व्यवहारानुपपत्तिः । तत्राप्यवस्थान्तराङ्गीकारेऽनवस्थाप्रसङ्गः । सामग्रयामनवस्थाया अदोषत्वेऽपि अत्रानवस्था दोष एवेति भावः । *प्रागसिद्धस्वरूपति-स्वपूर्वक्षणावृत्तित्वस्ववृत्तित्त्वैतदुभयसम्बन्धेन क्षणविशिष्टत्वं तत्वम् । एतदुत्पत्तिशब्दलक्ष्यार्थः । लकारसमभिव्याहारे कालसम्बन्धस्य तेनैव लाभात्स्ववृत्तित्वं परित्याज्यं ; एतत्तात्पर्येणैव स्वरूपेत्युक्तिः । ननु आद्यक्षणसम्बन्धे अवस्थायां च खण्डश उत्पत्तिपदस्य शक्तिः स्वीक्रियतां ; यत्रावस्थारूपार्थस्य बाधः तत्राद्यक्षणसम्बन्धरूपस्य खण्डशक्तयुपस्थापितस्यापरार्थस्य प्रतीतिसम्भवेनोपचाराङ्गीकारोऽनुचित इति चेन ; न ; खण्डशश्शक्तिस्थले एकार्थमात्रबोधो लक्षणया निर्वाह्यः न तु शक्येति नव्यनैयायिकैस्सिद्धान्तितत्वात् । यद्यप्याद्यक्षणसम्बन्धप्रागसिद्धस्वरूपलाभयोरुत्पत्तिशब्दलक्ष्यार्थत्वाविशेऽप्याद्यक्षणसम्बन्धस्य शक्यतया प्रथममुपस्थितिर्वर्तते ; तथाऽपि समभिव्याहृतपदार्थतावच्छेदकघटिताद्यत्वविशिष्टक्षणसम्बन्धस्यैव शक्यतयोपस्थितिः न तु समभिव्याहृतपदार्थघटिताद्यत्वस्येति बोध्यम् । 'आत्मकृतेः' परिणामात्' इत्यादिसूत्रैरवस्थारूपपरिणामनिबन्धनमेव