SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ 306 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्तांकलापे जडद्रव्य तत्वमुक्ताकलापः नच कृतामात्थ सर्वार्थसिद्धिः कार्यत्वपक्षे अपसिद्धान्तं असदकरणादिति हेतुविरोधं चाभिप्रेत्याह-नचेति । ननु कार्यस्य कृतिस्तावत् न कार्यस्वरूपमेव । कार्य क्रियते घटः क्रियते इति सामान्यतो विशेष(पाच)तश्च सह प्रयोगात् । अतिरिक्ता च सा । तथा सति कार्यव्यक्ती कः प्रद्वेषः ? कृतिरपि कृता वा व्यक्ता वा? पूर्वत्रानवस्था । आनन्ददायिनी हेतुविरोधं चेति-सतः कृतत्वायोगात् कृतत्वे (वा) प्रागसत्त्वनियमात् असदकरणादिति हेतुविरोध इत्यर्थः । कार्यव्यक्तौ---कार्यस्याभिव्यक्तौ । कःप्रद्वेषः --कृतितुल्यत्वादित्यर्थः । तुल्यतामेवोपपादयतिकृतिरपीति । कृतिर्हि कृतैव । नचानवस्था ; सिद्धानवस्थारूपतया भावप्रकाशः नित्यानित्योभयरूपत्वस्योक्ततया नित्यत्वेऽपि सर्वकार्येष्वनित्यरूपेण क्रमस्संभवतीति योगभाष्योक्तानेकान्तवादावलम्बनेन दूषणोद्धारः कृत एवेति चेत् ; कस्याप्यनित्यरूपस्य कारकव्यापारात्पूर्वमतीतावस्थयाऽप्यसत्त्वानङ्गीकारे क्रमः कारकव्यापारसाफल्यं च न संभवति । अङ्गीकारे च तत्र सत्कार्यवादक्षतिरिति समाधानमाचार्यैरुक्तप्रायम् । 'तद्धेदं तीव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत' 'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यं' इत्यादिश्रुतयः वस्तुसामान्यस्य
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy