________________
290
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः न हि व्यक्तौ विशेषोऽस्ति न चावरणवारणम् ।।
आनन्ददायिनी किमभिव्यक्तिरावरणनिवृत्तिः तदनुकूलव्यापारो वा? नोभयत्र तारतम्य
भावप्रकाशः उपमानपरिच्छेदे
पृथिव्यादिषु चैतेषां सतामेव स्वभावतः । परिणामादिभिर्व्यक्तिर्यथादृष्टयवधार्यते ।।
न हि शक्तयात्मना किञ्चिदसज्जन्म प्रपद्यते ! । इति । आत्मवादेऽपि
नचावस्थान्तरोत्पादे पूर्वात्यन्तं विनश्यति । उत्तरानुगुणत्वात्त समान्यात्मनि लीयते । स्वरूपेण ह्यवस्थानां अन्योन्यस्य विरेधिता ।
अविरुद्धस्तु सर्वासु सामान्यात्मा प्रवर्तते ॥ इति । एतच्च उदाहृतपञ्चशिखाचार्यवचनसमानार्थकम् । एवंचावस्थानामपि सर्वकालसंबन्धित्वमुभयसंमतमेव । योगभाष्ये अर्थक्रियाकारित्वतदभावोपपादनभनेकान्ताश्रयणेन कृतम् । नावस्थानां सर्वकालासंबन्ध उक्तः । सांख्यैस्तु--
अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः । . . . . प्रवर्तते त्रिगुणतस्समुदयाच्च ।
परिणामतस्साललवत्प्रतिप्रतिगुणाश्रयविशेषात् । इत्यनेन 'गुणिनित्यत्वेऽपि' इत्यादियोगभाष्योक्त एवार्थोऽनेकान्तपक्षमनवष्टभ्यैवोक्त इति पक्षद्वयतात्पर्यमाकलय्य वाचस्पतिना तात्पर्यटीकायां तथोक्तमिति सुधीभिरूह्यम् ।।