________________
सर:] सर्वनित्यत्वे परोक्तानुमाननिरासः कारकव्यञ्जकस्वरूपभेदव्यवस्थानुपपत्तिश्च 281
भावप्रकाशः नित्यत्वे विवाक्षतम् ; वैनाशिकार्धवैनाशिकमतद्वये निरन्वयविनाशाङ्गीकारेऽपि सांख्यवत् सिद्धान्तेऽपि भावान्तराभावपक्षाश्रयणेन अवस्थानामनित्यत्वाङ्गीकारेऽपि निरन्वयविनाशानभ्युपगमेन विवादस्यैव विलयप्रसङ्गात् । किंतु सर्वकालसम्बद्धत्वम् । सिद्धान्तेऽवस्थानां कारकव्यापारात्पूर्वमसत्त्वाङ्गीकारेण न नित्यत्वम् । सांख्यमते तु न तथा; यथाऽऽहाक्षपादः—'सर्व नित्यं पञ्चभूतनित्यत्वात् ४-१-२९ इति। अत्र तात्पर्यटीका-'पञ्चभूतात्मकं खल्वेतत् गोघटादिकार्यमुपलभ्यते । व्यपदिशन्ति हि मृद्धटो मृच्छरीरमिति । भूतानि च नित्यानि । तेषामुच्छेदस्य नैयायिकैरनभ्युपगमात् । तेन भूतानां गोघटादीनां नित्यतेति पूर्व:पक्षः । एताद्विचारावसरे ‘न व्यवस्थानुपपत्तेः' इति सूत्रावतरणभाष्यम्-' अवस्थितस्योपादानस्य धर्ममात्रं निवर्तते धर्ममात्रमुपजायते । स खलुत्पत्तिविनाशयोर्विषयः । यच्चोपजायत तत् प्रागप्युपजननादस्ति । यच्च निवर्तते तन्निवृत्तमप्यस्तीति । एवं च सर्वस्य नित्यत्वमिति' इति । एवं 'न पयसः परिणामगुणान्तरप्रादुर्भावात् ' ३-२-१४ इति सूत्रेऽपि ‘पयसः परिणामो न विनाशः इत्येक आह ; परिणामश्च अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिरिति । गुणान्तरप्रादुर्भाव इत्यपर आह ; गुणान्तरप्रादुर्भावश्च सतो द्रव्यस्य पूर्वगुणनिवृत्तौ गुणान्तरमुत्पद्यते इति । स खल्वेकपक्षीभाव एव ; अत्र तु प्रतिषेधः' इति च । अत्रापि तात्पर्यटीका—'भाष्ये गुणान्तरप्रादुर्भाव इति-द्रव्यं तावत्सदेव। गुणोऽप सन् केवलमनुद्भूत आसीत्। एकश्चोद्भूत गुणः। तत्र य उद्भूतस्तिरोभवति पूर्वगुणस्य निवृत्तौ तिरोभूतौ गुणान्तरमुत्पद्यते तद्भवतीत्यर्थः' इति । अत्र न्यायभाष्ये 'अवस्थितस्य द्रव्यस्य' इत्यादिपातञ्जलसूत्रभाष्यानुपूर्वीदर्शनेन कापिलाः पातञ्जलाश्च सर्वनित्यत्ववादिनः इति सिध्यति । एवं पातञ्जलसाङ्ख्यदर्शन योरेकपक्षीभावोऽपि ।