SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ 272 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य सर्वार्थसिद्धिः प्रागसत्तुच्छमेव स्यात् सच्च नित्यं सदित्यसत् । अयथादृष्टि निर्णेतुरशेषाभीष्टविप्लवात् ॥ अन्योऽपि घटवान् कालः कालत्वादिति वादिनः । पक्षदृष्टान्तबाधादिप्रसङ्गःप्रणिधीयताम् ॥ यच्च कारकाणां कार्य प्राप्तानामेव तदुत्पादकत्वमिति; व्याहतमेतत् । किञ्च किं दृष्टत्वादेवमङ्गीक्रियते अव्यवस्थाभयाद्वा? नाद्यः; अनन्यथासिद्धनियतपूर्वभावित्वादतिरिक्तायाः आनन्ददायिनी अन्यथा अनभिव्यक्तस्य शशशृङ्गवदभिव्यक्तिसंपादन (मशङ्कयम्) मप्यशक्यं ; आतिप्रसङ्गात् । ननु प्रागसत्त्वे चासत्त्वाविशेषात् शशशृङ्गवत् तुच्छता स्यात् ; कदाचित्सत्वे सत्त्वाविशेषात् आत्मादिवत् सर्वदा सत्त्वमेव स्यादित्यत्राह-प्रागसदित्यादिना । प्रागसत एव घटादेः कदाचित्सत्वस्य सत एव घटादेः पश्चादसत्त्वस्य च प्रत्यक्षदृष्टेः दहनानुष्णत्वानुमानवाधितमिति भावः । अनुभवातिक्रमे बाधकमाह-अयथेति । आत्मा जडो विकारी वस्तुत्वात् ; प्रकृतिरपि स्वोपादाननिष्ठा जडद्रव्यत्वात् ; प्रकृत्यादि प्रत्यक्षं स्यात् उपादानद्रव्यत्वात् इत्यादिप्रसङ्गादित्यर्थः । सत्त्वसाधकानुमानान्तरं दूषयति-अन्योऽपीति । घटवत्त्वेन वादिद्वयसंप्रतिपन्नकालान्यः काल इत्यर्थः- इतिवादिनः-सांख्यस्य । भवद्भि : कालरूपपदार्थानङ्गीकारात् पक्षासिद्धिरित्यर्थः–प्रणिधीयतां-प्रतिसन्धीयताम् । परसिद्धस्य पक्षत्वे तु बाध इति ध्येयम् । द्वितीयमपि हेतुं विशिष्य दूषयति—यच्च कारकाणामित्यादिना । व्यहतमेतदिति
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy