SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ सरः] त्रिगुणपरीक्षायां सत्कार्यवादद्वितीयतृतीयहेतुविवरणम् 265 सर्वार्थसिद्धिः '* असतोऽप्यप्राप्तस्यापिसृष्टिः हेतुशक्तिनियमात् स्यादित्यस्योत्तरमेतत्-अयं भावः-यदि कारणेष्वसत् तदप्राप्तं च कार्यमुत्पद्येत तदा तिलभ्य एव तैलं किमुत्पद्यते न सिकताभ्यः? शक्ताशक्तप्रभेदादिति चेत्, सिद्धं नस्समीहितम्! * तिलानां तैलोत्पादनशक्तिर्हि तद्गर्भत्वमेव ! अन्यादर्शनात् । तदशक्तिश्च __आनन्ददायिनी व्याप्तिरसति ग्राह्या; तत्र जन्यत्वादित्येव हेतुस्स्यात् ; तथाच प्रथमहेत्वभेद इत्याशङ्कय पूर्वहेतौ विपक्षे बाधकस्तर्क इत्याह-असतोऽपीति । ननु शक्तस्य जनकत्वं कथमप्राप्तस्योत्पत्त्यभावव्याप्तौ बाधकस्तर्क इत्यत्राह-अयं भाव इति । तद्गर्भत्वमेवेति-तैलगत्वमेवेत्यर्थः ! भावप्रकाशः तम् । असदकरणादुपादानग्रहणादित्यत्र विवक्षितहेतुद्वयाप्रयोजकत्वमपाकरोति मूले शक्तस्य शक्यकरणादितीत्याशयेनाह* असत इत्यादि-एतेन तत्वकौमुद्यां द्वितीयहेतुमात्राप्रयोजकत्वशङ्काप. दर्शनं प्रथमहेत्वप्रयोजकत्वस्याशङ्काया अप्युपलक्षणमिति । 'अत्र चेदमनुमानम्-विमतं शक्तिमत्कारणकं कार्यत्वात्' इति । शक्तितः प्रवृत्तेश्चेत्येतद्विवरणतत्वकौमुद्यनुरोधेनाह-2 *तिलानामित्यादि-यद्यपि तत्वकोमुद्यां उपादानग्रहणादिति हेतोरप्रयोजकत्वशङ्कावारणार्थ सर्वसम्भवाभावादिति हेतुरित्येतावन्मात्रमेवोक्तं; तथाऽपि मध्यमणिन्यायेन हेतुचतुष्टये तच्छङ्कानिवारणाय -मूले सर्वसम्भवाभावादित्युक्तमित्येव युक्तमित्यभिप्रेत्याह
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy