SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ सरः] त्रिगुणपरीक्षायां सत्कायवादप्रथमहेतुविवरणम् 261 सर्वार्थसिद्धिः एवं यद्यतोऽन्यत् न तत्सर्व कदाचिदपि तत्स्यात् ; प्रमाणादेरपि कदाचिदप्रमाणत्वप्रसङ्गात् । '*नचातीतादेर्वर्तमानतादिरीश्वरेणापि सुनिष्पादः; असत्त्वं सत्त्वं च वस्तुनोऽवस्थेति आनन्ददायिनी धर्मवत्त्वमविरुद्धम् ; तथाच सत्त्वासत्त्वे धर्मो घटस्य सत एवेति शङ्कतेअसत्त्वं सत्त्वं चेति । तर्हि सत्त्वासत्त्वाश्रयस्यानादितया सत्त्वकाले सत्तये भावप्रकाशः रोक्तया नीलपीतयोः प्रकृतिपरिणामत्वेन प्रकृत्यनतिरिक्ततया यथाश्रुतेऽसंगतिरिति चोद्यस्यापि नावकाशः । कारणात् कार्यस्याविभागः अनभिव्यक्तिरूपः अतीताख्यो लक्षणपरिणामः । कारणात् कार्यस्य विभागः अभिव्यक्त्यात्मकः वर्तमानताख्यो लक्षणपरिणामः । तयोरैक्ये सृष्टिप्रलययोरैक्यं स्यादिति भेद एवास्थेय इत्याह-- *नचातीतादेरित्यनेन । अयमेव हि सत्कार्यवादिनामसत्कार्यवादिभ्यो विशेषः--यत् तैरुच्यमानौ प्रागभावप्रध्वंसौ सत्कार्यवादिभिः कार्यस्यानागताततिावस्थे भावरूपे प्रोच्यते । वर्तमानाख्या चाभिव्यक्तयवस्था घटाव्यतिरिक्तेष्यते घटादेरवस्थावत्त्वानुभवादिति विज्ञानभिक्षुणावस्थातद्वतोभेंदोक्तेः नात्र पूर्ववच्चोद्यमुदतीति बोध्यम् । उपादानग्रहणादिति हेतुः तत्वकौमुद्यामित्थं विवृतः-उपादानानि कारणानि । तेषां ग्रहणं कार्येण संबन्धः । उपादानैः कार्यस्य सम्बन्धादिति यावत् । एतदुक्तं भवति - कार्येण सम्बद्धं कारणं कार्यस्य जनकम् । सम्बन्धश्च कार्यस्यासतो न सम्भवति इति अत्रोपादानपदस्य निमित्तोपादानोभयसा. धारण्येन कारणमात्रपरत्वोक्तया कार्य स्वसम्बद्धकारणकं कारणनिष्पन्नत्वात् इति मूलविवक्षितानुमाने यत्र स्वसम्बद्धयत्कारणकत्वं नास्ति तत्र
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy