________________
258
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः समष्टिव्यष्टिनीत्यैव त्रिगुणे वदति श्रुतिः । ईदृक् सत्कार्यवादश्च वैदिकैः परिगृह्यते ।
द्रव्यस्य पूर्वसिद्धस्य साध्यावस्थाविशेषतः । ननु यदि पूर्व नित्यं सहव्यम्! तत्कथं साङ्ख्यपक्षमुज्झतः कार्य स्यात् ? या त्वागन्तुक्यवस्था सा न प्राक्सती ; अतः कथं सत्कार्यवादं ब्रूथ? इत्थम्! प्राक्सदेव द्रव्यमवस्थान्तर-" विशिष्टवेषेण कार्यम् । तथैव लोकवेदव्यवहारस्थितिरिति ॥२३ इति त्रिगुणपरीक्षायां देहादेः पाञ्चभौतिकत्वं
सहव्यवादनिगमनं च.
आनन्ददायिनी प्रकृतिविशेषणं बहुत्वमित्याहुः । ननु आगन्त्ववस्थायोगित्वमेव कार्यत्वं द्रव्यस्य ; न त्वसत उत्पत्तिः ; अत एव शरीरस्यापि पाञ्चभौतिकत्वमिति इयता प्रतिपन्नम् ; तदयुक्तम् ; ईदृशसत्कार्यवादस्य साङ्ख्यैरनङ्गीकारे सत्कार्यवादत्वाभावात् इत्यत आह-ईदृक्सत्कार्यवादश्चेति । ननु अगन्तुक्योऽवस्थाः; तथापि तद्वत्त्वेन सत्कार्यपक्षो नोपपद्यते इत्याशङ्कतेनन्विति । साङ्ख्यमतमुज्झत इति—अभिव्यक्तिपक्षमनभ्युपगच्छत इत्यर्थः ॥ २३ ॥
इति त्रिगुणपरीक्षायां देहादेः पाञ्चभौतिकत्वं
सहव्यवादनिगमनं च.