________________
सरः] त्रिगुणपरीक्षायां सद्दव्यवादसाधने अन्त्यावयविनो दुरुपपादत्वम्
249
सर्वार्थसिद्धिः रवयवान्तरं घटयेत् तदा तत्पूर्व गोपुरं तिष्ठति नश्यति वा? पूर्वत्र कथमन्त्यः? उत्तरत्र अनन्यथासिद्धोपलम्भविरोधः; नाशकारणाभावे नाशानुपपत्तिः, अपि च तूलपिण्डमध्यस्थमंशुं यदि कश्चित् सूच्यापकर्षेत् तदा तस्य परिमाणहासो न दृश्यते, न च तस्य नाशः; अथाऽपि तत्र ते नाशः कल्प्यः । असमवायिनाशात् समवायिविगमाच्च । संघातवादे तु अवयवोत्कर्षापकर्षवादमात्रान्न किश्चिद्दव्यमुत्पद्यते नश्यति वा । केवलमाषादिराशिष्विव उपचयापचयमात्रमेव । अतो
आनन्ददायिनी व्यभिचारस्थलान्तरमप्याह—किंचेति' इत्याहुः । पूर्वत्रेति-सपतिघत्वविरोधेन पूर्वगोपुरावयवानामनारम्भकतया तस्यैवोत्तरगोपुरारम्भकत्वन तत्समवायित्वादिति भावः । ननु दीपप्रभान्यायेन उपलम्भविरोधो नेत्याह--नाशकारणेति । तदा तस्येति-अवयविवादिमते द्रव्यनाशेन पूर्वपरिमाणनाशात् पुनरारब्धद्रव्यस्य तन्नयूनावयवप्र - शिथिलसंयोगकत्वेन न्यूनपरिमाणनियमात् तद्दर्शनप्रसङ्गः । अथाऽपीतिपूर्वपरिमाणोपलम्भेऽपि आश्रयनाशकल्पनं साहसमिति भावः । ननु तत्र नाशो मास्त्वित्यत्राह-असमवायीति । त्वदुक्तनाशसामग्री - सत्त्वान्नाशकल्पनायास्तवावश्यकत्वादिति भावः । संघातवादे न दोष इत्याह-संघातवादे इति । उपचयापचयौ---अवयवाधिक्यन्यूनते । अंशुविदारणं-अवयवविच्छेदः । संधानं—योजनम् । तथाच मूलस्यायमर्थः—भवतामवयविस्थाने स्थूलसंघातमेकम् । राशिवत्-राशि