________________
246
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे ·
जडद्रव्य
सर्वार्थसिद्धिः एकदेशे समस्ते च वृक्षलक्षणसम्भवे । वृक्षधीरुपपद्येत सङ्ग्रहाच्चापृथङ्मतिः ॥ सर्वाग्रहणमवयव्यसिद्धेरिति सूत्रयन् । प्रत्यक्षव्यतिरिक्तान्तक्लूप्तिदौस्थ्यपराहतः॥ सेनावनवदित्यादावप्रत्यक्षाणुसूत्रणम् । त्रसरेण्ववधिस्थाणुस्थापकेषु न शोभते ॥२१॥
एवं तन्तुपटादीनां भेदे याधकं तत्साधकानामन्यथासिद्धत्वं चोक्तं ; तथाऽप्यभेदे किं प्रमाणमिति वदन्तं प्रति 'स्थिरत्वे
आनन्ददायिनी वृक्षत्वे समुदायप्रतीतावेव वृक्षधीस्स्यात् न त्वेकदेशशाखादिप्रतीतावित्यत्राह-एकदेश इति । एकदेशस्यापि जलावयवस्य जलवत् वृक्षत्वादित्यर्थः । तर्हि शाखादीनामपि वृक्षलक्षणयोगाद्वक्षत्वे वृक्षैकत्वीन स्यादित्यत्राह-संग्रहाच्चेति । सर्वेषां शाखाद्यवयवानां जलराशिवद्दढतरसंश्लेषादेकवृक्षबुद्धिरित्यर्थः । यदुक्तमक्षपादोक्तमनतिक्रमणीयं स्यादिति ; तद्दषयति--सर्वाग्रहणमिति । प्रत्यक्षव्यतिरिक्तपरमाण्वन्ततत्वपातक्लप्ताविदं दूषणं स्यात् ; नच तदन्तक्लप्तिः ; दौस्थ्यपराहतत्वात् ; तथाच तत्कल्पकोऽक्षपादोऽपि पराहत इत्यर्थः। किंच 'सेनावनवग्रहणमिति चेन्न अतीन्द्रियत्वादणूनाम् ' इति अवयव्यभावमाशङ्कय अप्रत्यक्षत्वप्रसङ्गादवयविसाधनं चायुक्तमित्याह-सेनेति ॥२१॥
उत्तरश्लोकेनाप्यवयविखण्डनं क्रियते इति पौनरुक्तयं (परिहरन्) पूर्वशेषत्वात् (संगत्यन्तरंन्ना)नास्तीत्यभिप्रायेणाह-तन्तुपटादीनामिति।स्थिरत्वे
भावप्रकाशः परकालस्थायिमृद्धटाद्यैक्यं साधयितुमलमिति व्यञ्जयति--1*स्थिरत्वे प्रमाणमेवात्र प्रमाणमित्यनेन ।