SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ सरः] त्रिगुणपरीक्षायां प्रकृतिविकृतिविभागपरक्षिा तद्गणनपरीक्षाच 173 सर्वार्थसिद्धिः . दानत्वे प्रकृतयो विकृतयश्च द्वादश स्युः। * ननूपबृंहणविशेषानुसारादिन्द्रियाणि शब्दादिगुणाश्च षोडश विकाराः । भूततन्मात्रभेदानादरेण प्रकृतयश्चाष्टावभ्युपगम्यन्तां ; मैवं; द्रव्य आनन्ददायिनी यदुक्तं भट्टपराशरपादैः सुबालोपनिषद्विवरणे–'यदि भूतानामपि प्रकृतित्वं तर्हि · अष्टौ प्रकृतयष्षोडश विकाराः' इति श्रुतेः का गतिरिति चेत् ; वेदोपबृंहणनिपुणतरपरमर्षिसन्दर्शितैव गतिः ; नास्माभिस्तद्विरुद्धनिर्वहणेऽभिनिवेष्टव्यमित्यारभ्य ; तदपि स्वारस्याभावाझ्षयतिनन्वितीत्येके । विरोधपरिहारं शङ्कते नन्वितीति बहवः । मोक्षधर्मे याज्ञवल्क्यजनकसंवादे अष्टौ प्रकृतयः प्रोक्ताः विकाराश्चैव षोडश । अव्यक्तं च महांश्चैव तथाऽहकार एव च ॥ पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् । एताः प्रकृतयस्त्वष्टौ विकारानपि मे शृणु ॥ श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् । वाकूच हस्तौ च पादौ च पायुर्मेद्रं तथैव च ॥ एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु । मनष्षोडशमित्याहुस्तथैव गतिचिन्तकाः ॥ इत्याद्युपश्रृंहणानि द्रष्टव्यानि । आथर्वणवाक्यस्य द्रव्यतत्वप्रकरणस्थत्वादत्र गुणविवक्षा न सम्भवतीति परिहरति—मैवमिति । तर्हि भावप्रकाशः *ननूपबृंहणेत्यादि-अयमेवार्थो युक्त इति न्यायसिद्धाञ्जनव्याख्याने स्पष्टम् ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy