SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ रसः] त्रिगुणपरीक्षायां जैनोक्तशाश्वतभूतभेदक्लाप्तिभङ्गानिरासः 171 तत्वमुक्ताकलापः तत्वेष्वाथर्वणेऽष्टौ प्रकृतय उदिताष्षोडशान्ये ___ सर्वार्थसिद्धिः ननु तत्वसृष्टौ क्रमनियमो न सम्भवति ‘आकाशमिन्द्रियेषु इन्द्रियाणि तन्मात्रेषु' इति सुबालोपनिषदानानात् । अव्यवस्थिताश्च सृष्टिव्यवहाराः पृथव्यादिषु दृश्यन्ते । अतो यथाश्रुतं कल्पभेदात्सृष्टिभेदस्स्यादित्यत्राह-तत्वेष्विति । अधीयते च केचिदाथर्वणिकाः 'अष्टौ प्रकृतयष्षोडश विकाराः' इति । अत्र तावदव्यक्तमहदहङ्कारतन्मात्राणां प्रकृतित्वमविगीतं । इन्द्रियेभ्यस्तत्वान्तरोत्पत्तिश्श्रुत्यन्तरेषु पुराणेषु वा न क्वचिदृश्यते । सौवाले च लया आनन्ददायिनी द्रव्यस्य पृथ्व्यादिपरिणतिलाघवाय स्वीकार्येति जैनमतस्था आहुः। तत्रतदुक्तेषु एकस्य परिणतिरिष्टा। सा च क्रमनियता तथा लयश्च तथा दृढतरागमतः प्रतिपादनात् । या तु लाघवोक्तिः सा तर्केकालम्बिगोष्ठ्यां बहुमतिं केवलानुमानतस्तत्वक्लप्तिगोष्ठ्यां-साङ्ख्यगोष्ठयां भजत्विति ॥१४॥ इति त्रिगुणपरीक्षायां जैनोक्तशाश्वतभूतभदक्लूप्तिभङ्गनिरासः. आक्षेपिकी संगतिरित्याह--ननु तत्वसृष्टाविति । सुबालोपनिषदीति । 'पृथिव्यप्सु प्रलीयते आपस्तेजसि लीयन्ते तेजो वायौ लीयते वायुराकाशे लीयते आकाशमिन्द्रियेषु इन्द्रियाणि तन्मात्रेषु तन्मात्राणि भूतादौ लीयन्ते' इत्यादिलयानुक्रमणात् लयस्थानस्योपादानत्वप्रतीतेरिति भावः । पूर्वोक्तगत्यन्तरमेव - ज्याय इत्याहअत इति । ननु सुबालोपनिषद्वाक्यमस्तीत्याह---सौबाले चेति । न च
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy