SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ 150 सव्याख्यसर्वार्थसिद्धिसाहिततत्वमुक्ताकलापे [जडद्रव्य सर्वार्थसिद्धिः . * पत्रिंशत्तत्ववादश्च आनन्ददायिनी मप्युक्तन्यायेन दुष्टमिति सूचयति। षट्त्रिंशदिति । तदुक्तं श्रीकरभाष्ये पृथ्व्यादि पञ्चभूतानि तन्मात्रापश्चकं तथा । बुद्धीन्द्रियाणि पश्चापि पञ्च कर्मेन्द्रियाणि च ॥ मनो बुद्धिरहङ्कारः कला कालौ (काष्ठा) तथैव च । नियती रागविद्ये च प्रकृतिस्तद्गुणास्त्र(श्र)यः ।। धर्माधर्मों तथा जीवः ईशस्तत्वानि बुध्यतु । इति । (अन्यत्रापि तेषां) शैवतत्वसंग्रहे च शैवागमेषु मुख्य पशुपतिपाशा इति क्रमानितयम् ॥ .. तत्र पतिश्शिव उक्तः पशवो ह्यणवोऽर्थपञ्चकं पाशः। इति । मलं कर्म च माया च मायोत्थमखिलं जगत् ॥ तिरोधानमयी शक्तिरर्थपञ्चकमिष्यते । इति पाशविभागः । शुद्धानि पञ्च तत्वान्याद्यन्तेषु स्मरन्ति शिवतत्वम् । शक्तिसदाशिवतत्वे ईश्वरविद्याख्यतत्वे च ॥ पुंसो ज्ञकर्तृतार्थं मायातस्तत्वपञ्चकं भवति । कालो नियतिश्च तथा कला च विद्या च रागश्च ॥ अव्यक्तान्मायातो गुणतत्वं तदनु बुद्ध्यहङ्कारौ । चेतो धीकर्मेन्द्रियतन्मात्राण्यनु च भूतानि ॥ इति । एतानि युक्तया समर्थ्यन्ते आगमेन वेति विकल्पं मनसिकृत्याये भावप्रकाशः 1* षट्त्रिंशदिति । न्यायसिद्धाञ्जनादौ चैतद्विस्तृतम्। ...
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy