________________
148
सव्याख्यसर्वार्थसिद्धिसहितत त्वमुक्ताकलाप
[जडद्रव्य
सर्वार्थसिद्धिः
कूर्मावयवदृष्टान्तश्चात्र मन्दः । तत्र ह्याकुञ्चनप्रसारणाभ्यां अवयवान्तरावृतानावृतत्वसिद्धया भवत्यव्यक्तव्यक्तावस्थाभेदः न तूपादानोपादेयभावात् । न च तत्र कस्यचिदवयवनाशोत्पतिव्यवहारः । अतो न कथञ्चिदप्यनुमानादव्यक्तादिसिद्धिः । त्रिगुणपरीक्षायां प्रकृत्याद्यनुमनिनिरासः प्रकृत्यादेरागमिकत्वंच 'आगमेन विना सिद्धिस्तन्मात्राणां च दुर्वचा । उद्भवानुद्भवाद्यैस्तु लोके सूक्ष्मादिकल्पना || ' आनन्ददायिनी
;
चाविर्भवन्ति न तु कूर्मस्तदङ्गानि वोत्पद्यन्ते ध्वंसन्ते चेतिं तद्दृषयति कूर्मावयवेति तत्र व्यक्ताव्यक्तावस्थाभेदो नोपादानोपादेयभावात् किं त्वावृतत्वानावृतत्वाभ्यां। ततश्च दृष्टान्तदाष्टन्तिकयोर्वैषम्यमिति भावः । नचेति । उपादानोपादेयस्थले नाशोत्पत्त्यव्यवहारादिति भावः ।
त्रिगुणपरीक्षायां प्रकृत्याद्यनुमाननिरासः प्रकृत्यादेरागमिकत्वं च पूर्वं महदादीनां स्वरूपं किमागमेनानुमानेन वा सिद्धमिति विकल्प्य स्वरूपासिद्धिरुक्ता इदानीं तन्मात्राणां महदादिवद्वृत्तिभेदरूप - लिङ्गाभासोऽपि नास्तीत्याह — आगमेनेति । ननु तन्मात्राणां यदि सूक्ष्मत्वेनाप्रत्यक्षत्वं तथा सति लौकिकानां तद्ग्रहणाभावेन क्वचिदपि सूक्ष्मादिव्यवहारो न स्यादित्यत्राह —— उद्भवानुद्भवाद्यैस्त्वति । उद्भवः स्फुटतरप्रकाशः । अनुद्भवस्तदभावः । न्यूनपरिमाणाधिकपरिमाणादिकमादिशब्दार्थ इत्यन्ये । ननूद्वतशब्दादिकं भूतं अनुद्धतशब्दादिकं तन्मात्रं उद्भवोऽनुद्भवश्च लोकसिद्धावित्यत्राह —उद्भवेति सिध्यतां नामोद्भवानुद्भवौ लोके ; तथाऽपि एकस्मिन्नेव तत्वे तौ सूक्ष्मस्थूलविभागं कुरुतः न तु तत्वान्तरत्वमापादयेतामिति