________________
146
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्तोकलाप
जडद्रव्य
सर्वार्थसिद्धिः * किं च यथा मृदवयवसंघाते घटादेरविभागादिः तथा पार्थिवाद्यणुसंघाते तत्तद्भूतभौतिकानां स किं न स्यात् ? ततश्च का कथा तदतिरिक्ततत्वकल्पनायां कृत्स्नैकदेशसंयोगानुपपत्त्या अणुसंघातस्य कारणत्वक्लप्तिरयुक्तति चेत्र । सत्वादिविभुद्रव्यसंघातस्यापि तत्रैव संयोगविकल्पावतारात् । अणूनां मिथः कास्नेयन संयोगे पृथुकार्यानुपपत्तिस्स्यात् न तु विभूनामिति चेन्न । तेषामपि मिथः कात्स्नर्थेन संयुक्तानां स्वापेक्षयाल्पप
आनन्ददायिनी सिषाधयिषिता; निमित्तत्वे कार्यगतसत्वाद्युपपादकत्वाभावादप्रयोजकतति भावः । किंचाणुसंघात एव घटादीनां विभागाविभागदर्शनान्महदादीनामपि तेष्वेव विभागाद्यनुमानस्योचितत्वान्न तदतिरिक्तस्यैकस्य विभागाविभागभूमित्वानुमानं युज्यत इत्याह-किंचेति । तथा च महदादि(तत्वमेव)कमेव प्रमाणाभावात्पक्षीकर्तुं न शक्यत इति भावः । अर्थान्तरपरिहारमाशङ्कते—कृत्स्नेति । समौ चोद्यपरिहाराविति परिहरति नेति । वैषम्यमाशङ्कते-अणूनामिति । पुनस्समतामाह-नेति । बहुकार्योत्पत्तावित्यनन्तरमनुपपत्तिस्स्यादिति पदमनुषञ्जनीयम् । तथा च पृथुकार्यानुपपत्तिवदल्पपरिमाणानेकानुपपत्तिस्समेति भावः । अनुपपत्तिमे
भावप्रकाशः भावः । प्रकारान्तरेणार्थान्तरमाह-*' किश्चेत्यादि । लाघवेनैकोपादानकत्वसाधनं न सम्भवतीति पूर्वमेवोक्तं । लाघवादरे बाधकं च 'कल्पनागौरवभयात्' इत्यादिकारिकायां वक्ष्यते ॥ - एकजातायेन धर्मपरिणामेनैव कार्यकारणत्वयोरुपपत्तौ धर्मपरि