________________
xix
शास्त्राधिकारं च तदीयमनुवदता लोकायतपदव्युत्पत्तिः पुष्कलाथैवोपपा. दिता भवति । लोकायतदर्शनं च बृहस्पतेस्सूत्रनिबन्धात्मकं चार्वाकनाम्ना भाष्यप्रणयनपूर्वकं प्रचारितमिति तत्कृत एव च चार्वाकमतमिति प्रथाविशेषः । चार्वाकस्य भाष्यप्रणेतृत्वं च परमतभङ्गे उक्तमाचार्यवर्येण (५८ पृ)॥
चार्वाकेतिहासश्च महाराष्ट्रज्ञानकोशनाम्नि भाषापदकोशे एवं दर्शितः-'अवन्तीदेशान्तर्गतक्षिप्राचामलानद्योस्संगमप्रदेशे शङ्खोद्धारनाम्नि क्षेत्रे कल्यादि युधिष्ठिरादि वा ६६०-६६१ तमे प्रभवसंवत्सरे उत्तरायणे वैशाखशुद्धपौर्णमास्यां रविवारे मध्याह्नसमये चार्वाकनाम्नः नास्तिकतत्वज्ञस्य जन्मेति ; युधिष्ठिर ७२५ तमे श्रीमुखसंवत्सरे भाद्रपदशुद्धद्वादशीसोमवासरे पुष्करक्षेत्रस्थयज्ञनामकगिरौ दक्षिणायने चार्वाकस्य मरणम्' इति । जैनग्रन्थान्ते ग्रन्थनाम किमप्यनिर्दिश्य चरितमेत दुक्तं कोशकारेण संगृहीतमिति च आकरनिर्देशोऽपि कृत इव ।
संपूर्णो लोकायतसूत्रनिबन्धः केन वोपलब्ध इति न जानीमः । द्वित्राण्येव परं सूत्राणि प्राय उदाहरन्तो व्याख्यानिबन्धकाराः देहात्मवादपणे विज़म्भन्ते !!
न्यायदर्शने च गौतमः ‘अहेतुतो भावोत्पत्तिः कण्टकतैक्ष्ण्यादिवत्' 'पद्मसंमीलनविकारवत्तद्विकारः' इति सूत्राभ्यां कार्यकारणभावाद्यपलापरूपस्तर्कः चार्वाकीय एवानूदितः ॥
_ 'पृथिव्यप्तेजो वायुरिति तत्वानि' 'तेभ्यश्चैतन्य' 'किण्वादिभ्यो मदशक्तिवत्' इति त्रीण्येव सूत्राणि प्रायो दर्शनव्याख्यानिबन्धेषूपलभ्येरन् । तत्वसंग्रहपञ्चिकायां कमलशीलेन तत्समुदाये विषयेन्द्रियसंज्ञा' 'परलोकस्याभावात्परलोकिनोऽभावः' 'कायादेव ततो ज्ञानम्' इति त्रीणि चान्यान्यपि सूत्राणि दर्शितानि ; तेभ्यश्चैतन्यमिति सूत्रे