________________
122
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्त
[जडद्रव्य
सर्वार्थसिद्धिः
एकप्रमाणवेद्यत्वे कार्यकारणयोर्मथः । बोध्यबोधकते न स्तः सहदृष्टानिधूमवत् ॥ विप्रतिपन्नं प्रत्यनुमानं सार्थमिति चेन्न महदादीनप्यभ्युपेत्यानभ्युपेत्य वा तेष्वव्यक्तकारणकत्व विप्रतिपत्त्ययोगात् '*यदप्याहुः - कार्याणां स्वाधिकपरिमाणादुत्पत्तिर्नियतेति ; तदप्यसत् । वस्त्रादिषु वैपरीत्यदृष्टेः अव्यक्तस्य च परिच्छिन्नत्वं परस्तान्मृत्यं भिनत्ति" इत्यादिशास्त्रशतसिद्धं
44
तमसः
आनन्ददायिनी
रित्यर्थः । तथा च सिद्धसाधनमिति भावः । तदेव कारिकयोपपादयति
एकेति । ननु धूमाग्नयोरप्येकप्रमाणवेद्ययोरनुमापकत्वमनुमेयत्वं च
दृश्यत इत्यत्राह — सहदृष्टानिधूमवदिति । एकप्रमाण वेद्यत्वमेकदा निश्चितत्त्वमित्यर्थः । अत्र कैश्विद्भेदानां परिमाणादित्यत्र भेदानां -- कार्याणां परिमाणात् -- स्वाधिकपरिमाणकारणजन्यत्वस्य सिद्धत्वान्महदादिकार्यापेक्षयाधिकपरिमाणमव्यक्तं सिद्धं इति व्याचक्षते । तन्मतमाह —–—–— यदप्याहुरिति । वस्त्रादिष्विति । तथा च विरुद्धमिति भावः । व्यभिचारमप्याह — अव्यक्तस्यचेति । भिनत्ति–तरति ।
भावप्रकाशः
गमतास्सिध्यतीति नायकसरे (२५) वक्ष्यते । ततश्चैतत्पक्षेऽर्थान्तरमित्यपि बोध्यम् । माठरवृत्त्यनुयायिकल्पितमर्थं दूषयितुमनुवदति । 1 * यदप्याहुरिति - ' कारणगुणात्मकत्वात् । समन्वयात्' इति हेतुद्वयस्यैकत्रैव पर्यवसानस्य तत्वकौमुद्यां व्यक्ततया कार्येषु कारण