________________
सरः]
त्रिगुणपरीक्षायांप्रकृत्यनुमाननिरासः
115
सर्वार्थसिद्धिः 1 ननु चिच्छक्तरेव स्वतो विषयप्रवणतायां अनिर्मोक्षप्रसङ्गादस्ति किंचिद्दारं । तत्तु न चक्षुरादिमात्र, तदुपरमेपि सङ्कल्पाद्युत्पत्तेः । नापिमनोमात्रविश्रमः, तत्प्रशान्तावपि स्वप्ने मनुष्यस्य स्वात्मनि व्याघ्राद्यभिमानात् । नाप्यहंकारे पर्यवसानं, तद्विरामे सुषुप्तौ प्रश्वासनिश्वासहेतुभूतप्रयत्नाधारस्य महतस्सिद्धेः । न च तदवधिस्तत्वपतिः । तस्यापि परिमितत्वेन कार्यत्वात् । तत्कारणं त्वव्यक्तं न
आनन्ददायिनी तया बुद्धि(रस्तीत्या )सिद्धिरित्याशङ्कते–नन्वि(ति)त्यादिना-विपक्षे भाधकतर्कमाह-अनिर्मोक्षेति । विषयोपराग विरत्य(त्यागा)भावाद्वैराग्याद्यसिद्धेरिति भावः । परिशेषाद्बुद्धिसिद्धिरित्याह-तन्न चक्षुरादिमात्रमिति । तत्प्रशान्तावपीति—सांख्यैः स्वप्ने इन्द्रियमात्रोपरमस्याविशेषेण साधना (अभिधाना) दिति भावः । तथाच अहङ्कारजन्यस्वाप्नानुभवः । नाप्यहंकार इति । सुषुप्तावहमनुभवाभावेनाह
भावप्रकाशः साधयति बुद्धिः । सैव च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम् , इति कारिका प्रघट्टकस्य महदादि साधनपरत्व व्यञ्जनमुखेन स्वस्य साङ्ख्यमतरहस्यज्ञता प्रकाशयन् अनुमानेन महदादिसिद्धिं शङ्कते '* नन्वित्यादिना ।
2 * चिच्छक्तेः-चितः । * स्वतः