________________
112
सव्याख्यसर्वार्थासद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः तत्र तावत् यत् परिमितं तत् सकारणकं इत्यत्र न व्याप्तिः ।
आनन्ददायिनी न्नत्वात् इति प्रथमो हेत्वर्थः । तद्दषयति-तत्रेति । तत्र परिच्छिन्नत्वात्सकारणकमित्येवानुमानं ; न त्वव्यक्तकारणकमिति । — कारणमस्त्यव्यतम्' इति तु पक्षधर्मताबल सिद्धा (लभ्या) भिप्रायं । तथा च
.. भावप्रकाशः मदृष्टचरेणाव्यक्तेनेत्यत आह -भेदानामिति' इति । अत्र वंशीधरविवरणं 'ननु सुखात्मककार्येण कारणस्याव्यक्तस्य पूर्वार्यायां साधितत्वात् परिमाणादिना पुनःसाधने पौनरुक्तयापत्तिरित्याशङ्कायां कणभक्षादिमतविरोधेन साधितमप्यसाधितमिव भवतीति न्यायेन पुनः प्रसङ्गसङ्गत्या परमतानराकरणं विना प्रकृत्यर्थो न सिध्यतीत्युपोद्धातसङ्गत्या बहुसाधनहेतुकामार्यामवतारयति-स्यादेतदिति' इति। यद्यपि तत्वकौमुद्यां कारणकार्यविभागाविभागौ शक्तितः प्रवृतिरिति हेतुत्रयं परिमाणहेतोः प्राक् निरूपितं ; तत्र पाठक्रमत्यागे चेदं निदानं वंशीधरेणोक्तं-- अव्यक्तपदार्थस्यातान्द्रियस्य रूपादिविहीनस्य वा कारणत्वादर्शनेन दृष्टान्तासिद्धिरिति । तथाऽपि वंशीधरणेव ननु पारिभाषिकाव्यक्तत्वस्य परमाणुषु महत्तत्वाहङ्कारपञ्चतन्मात्रान्यतमेषु वा संभवेन कृतं ततः परेणाव्यक्तेनेति परिमाणादिति हेतोः चेतनस्य सुखाद्युपादानत्वनिराकरणाथ समन्वयादिति हेतोश्च प्रवृत्त्यभिधानेन परिमाणादित्यस्यैव प्राधान्यं । अत एव माठरवृत्त्यादौ पाठक्रमानुसरणं युज्यते इत्यभिप्रयन् पाठक्रममनुसृत्यैव दुदूषयिषुः 'परिमाणादिति परिमितत्वात् अव्यापित्वा दिति यावत्' इति वाचस्पत्युक्तमर्थ दूषयति-तत्र तावदित्यादिना ।