________________
110
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः वृश्चिकादिषु व्यभिचारात । तदभिप्रायं च सूत्रं '*" दृश्यते तु" इति । नापि षष्ठः; तस्य त्वद्बुद्धिमात्रारूढस्य अदृष्यत्वात् । लोकदृष्टस्य तु कस्यचिदुक्तो (दत्तो) त्तरप्रायत्वात् । अतः कर्मणां स्वविषयसरूपफलप्रदत्वानुमानवत् कार्याणां स्वगुणसरूपगुणकारणकत्वानुमानमपि अनैकान्त्यदुःस्थमिति ।
आनन्ददायिनी व्याससूक्तिसम्मतिमाह ---- तदभिप्रायमिति । कार्यकारणयोर्गोमयवृश्चिकयोर्वेक्षण्यं दृश्यत इत्यर्थः । स्वविषयसरूपति-स्वस्य हिंसादर्विषयो वधादिस्तजन्यदुःखादिकं वा तत्सरूपफलप्रदानानु
भावप्रकाशः _* ‘दृश्यते तु इति' इति--अत्र भाष्यं– दृश्यते हि माक्षिकादविलक्षणस्य कृम्यादेस्तस्मादुत्पत्तिः । ननूक्तमचेतनांश एव कार्यकारणभावात्तत्र सालक्षण्यं ; सत्यमुक्तं; न तावता कार्यकारणयोर्भवदभिमतसालक्षण्यसिद्धिः इत्युपक्रम्य ‘नहि घटमकुटादिष्विव वस्त्वन्तरव्यावृत्तिहेतुभूतासाधारणाकारानुवृत्तिाक्षिकगोमयवृश्चिकादिषु दृश्यते' इति । एतेन अचेतनत्वेन सुखदुःखमोहात्मकत्वेन गुणवव्यत्वेन वा सादृश्यं विवक्षितमिति वंशीधरवचनमपि दत्तोत्तरम् । येन केनचित्सारूप्यं तु जगद्ब्रह्मणोरपि सत्तादिसाम्यसंभवाद्भाष्य एव न विवक्षाहमित्युक्तम् । असङ्गश्रुत्या ब्रह्माणि परिणामाङ्गीकारो न संभवतीति वंशीधरोक्तं तु न युक्तं; तथा सति असङ्गश्रुतिविरोधेन तन्मते प्रकृतिपुरुषयोस्संयोगाङ्गीकारस्यैवासंभवप्रसङ्गात् । कूटस्थस्य सर्वमूर्तसंयोगित्वरूपविभुत्वानुपपत्तेः । सामान्यगुणातिरिक्तधर्म एव परिणामः तद्धेतुसंबन्ध एव सङ्गशब्दार्थ इति वंशीधरोक्त्या तन्मते न दोष इति