SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ सरः त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः 107 सर्वार्थसिद्धिः पटस्य तन्तुगुणत्वोक्तिरिति चेन्नः अवयविसमवाययोः त्वयाप्यनभ्युपगमात् । पटत्वस्य सन्तुनिष्ठत्वमुपलब्धमिति चेत् । किमतः; कार्यावस्थानां कारणद्रव्यवृत्तित्वमात्रसाधनापत्तेः । तथा च न कारणावस्थस्य सुखाद्यात्मकत्वासिद्धिः । कारणमानं तु सिद्धत्वान्न साध्यं । तृतीयेऽपि किमिदं कार्यस्य कारणं प्रत्यप्रधानत्वं? तत्कार्यत्वमिति चेन्न; सिद्धसाधनात् । साध्याविशेषाच्च । न हि अकारणेन किञ्चित्कायमिच्छामः । आनन्ददायिनी च तत् पटेऽपि तन्तुसमवेतत्वादिति शङ्कते.-तन्तुसमवेतत्वादिति । ननु तन्निष्ठत्वमेव तद्गुणत्वप्रयोजकमम्तु त (तु) च पटावस्थाया अस्तीति शङ्कते—पटत्वस्येति । किमत इति । महत्त्वाद्यवस्थाः कारणनिष्ठाः कार्यावस्थात्वात् पटत्वाद्यवस्थावदिति हि तदा प्रयोगो भवेत् । तथा च कारणगुणसामान्य सिद्धयेत् न तु त्रिगुणात्मककारणविशेष इति भावः । सिद्धसाधनादिति ----महत्त्वा (हदा)दिकं कारणायत्तं कार्यत्वादिति हि तदा स्यात् । तथा च चार्वाकव्यतिरिक्तं प्रति सिद्धसाधनमेवेति भावः । साध्याविशेषाच्चेति --- कारणनियतपश्चाद्भावित्वलक्षणकार्यत्वस्य कारणायत्तत्वस्य च पर्यायत्वादिति भावः । ननु कारणनियतपश्चाद्भावित्वं न कार्यत्वं अपि तु प्रागभावप्रतियोगित्वादिकं : तथा न पर्यायत्वं न सिद्धसाधनं चेत्यत्राह-न होति । कार्यमात्रस्य कारणनिरूप्यत्वव्याप्तिग्रहाद्व्याप्तिग्रहसामान्यसिद्धयैव सि या सिद्धसाधनमिति भावः । यद्वा—कारणं विनाऽपि कार्य (कार्य कि) मस्त्वित्यत्राह - न हीति । अकारणं--कारणाभावः । सहयोगे तृतीया । न हि कारणाभावस्थले कार्य चार्वाकादन्येऽङ्गीकुर्व
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy