________________
सर:]
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः
105
सर्वार्थसिद्धिः __ *अन्यद्वा किं चित् ? नाद्यः; असिद्धेः। * न खलु तन्त्वादिगुणैश्शुक्लादिभिः पटस्य तादात्म्यं दृष्टं । तथा सति गुणवत्तन्तुनिष्पत्तिमात्रेण पटनिष्पत्तिप्रसङ्गात् । * नचायमिष्टः प्रसङ्गः; , अभिव्यक्तिवादादेरपाकरिष्य
आनन्ददायिनी ... कत्वात् । सपत्नी दुःखाकरोति तां प्रति दुःखात्मकत्वात् । अनया स्त्रिया सर्वे भावा व्याख्याता इति । तथाचेदं कार्यजातं सुखदुःखमोहात्मकमिति तादृशकारणजन्यं तादृशकार्यत्वात् यद्यदात्मकं कार्य तत् तदात्मककारणजन्यं यथा मृदात्मको घटस्तदात्मकमजन्य इति सुखाद्यात्मकतया परिणतसत्वाद्यात्मकप्रकृतिसिद्धिरिति भावः । ननु शुक्लः पट इति प्रतीतेस्तन्त्वादिगुणैस्तादात्म्यं पटादेरस्त्वित्यत्राहतथा सतीति । तथा च पटाद्यर्थकारकव्यापारवैयर्थ्यमिति भावः । ननु कारकव्यापारो न पटाद्युत्पत्त्यर्थोऽपितु तदभिव्यक्तयर्थः इत्यत्राह--- नचायमिति । ननु शुक्लः पट इति धीभेदव्यवहारबलात्पटगुणयोरः
भावप्रकाशः * अन्यद्वा-माठरवृत्त्याद्युक्तं कारणगुणस्वभावत्वादिकम् । 2* न खल्वित्यादि-शुक्ल पट इति प्रतीत्या पटगतशुक्लरूपस्य पटस्य चाभेदस्य शङ्काहत्वेऽपि तन्तुगतशुक्लरूपस्य पटस्य चाभेदशङ्कायां बीजदर्शनं नेति भावः । ननु तन्तूनामेव पटरूपेणाभिव्यक्तया तन्तुपटयोरभेदेन शुक्लरूपपटयोश्च पृथग्जन्माननुभवेन शुक्लः पट इति प्रतीत्या ' चा भिन्नतया तन्तुगतशुक्लादिभिः पटम्य तादात्म्येन गुणवत्तन्तुनिष्पत्तिमात्रेण पटनिष्पत्तिप्रसङ्ग इष्ट एवेत्याशङ्कायामाह ** नचेत्यादि-अभिव्यक्तिवादादेरित्यत्रादिपदस्य द्रव्यगुणयोः पृथ