________________
xvi
इति भर्तृहरिणा
मीमांसा काले लोकायतीकृता । तामास्तिकपथे नेतुम् ॥ इति सामान्यतः कुमारिलैः ; विशिष्य च तैरेव
रागद्वेषमदोन्मादप्रमादालस्यलुब्धताः ।
क्क वा नोत्प्रेक्षितुं शक्याः स्मृत्यप्रामाण्यहेतवः ।। इति सर्वत्रानाश्वासमाशङ्कय
अदुष्टेन तु चित्तन सुलभा साधुमूलता । इति तत्परिहारमुक्ता
का वा धर्मक्रिया यस्यां दृष्टो हेतुर्न युज्यते । . लोकायतिकमूर्खाणां नैवान्यत्कर्म विद्यते ॥ यावत्किञ्चिददृष्टार्थ तद्दष्टार्थ हि कुर्वते ! । वैदिकान्यपि कर्माणि दृष्टार्थान्येव ते विदुः ॥ अल्पेनापि निमित्तेन विरोधं योजयन्ति ते । तेभ्यश्चेत्प्रसरो नाम दत्तो मीमांसकैः क्वचित् ।।
न च कंचन मुश्चेयुः धर्ममार्ग हि ते तदा ! ॥ इति सर्वत्रानाश्वासं विप्रतिपत्तिं वेदश्रद्धाया अप्यन्यथासिद्धिं अन्यच्चान्यच्च शुष्कतर्कावलम्बनेन वदन्तो लोकायतिका मूर्खा एवोक्ताः । अत एव लोकायतस्य वितण्डाशास्त्रत्वव्यवहार उपपद्यते वौद्धानाम् । वितण्डसत्थं विजेयं यं तं लोकायतम् ।
(अभिधानप्रदीपिका) (वितण्डाशास्त्रं विज्ञेयं यत्तल्लोकायतम् । (इति छाया) इति । तदेतज्जयन्तभट्टोप्याह--
न च लोकायते किञ्चित्कर्तव्यमुपदिश्यते । वैतण्डिककथैवासौ न पुनः कश्चिदागमः ॥